________________
अनुसंधान-१६ • 23 उच्छेदाय मलस्य, कुत्कुत इह, त्वं कौतुकं चेच्छृणु प्रस्फुर्जद्गुरुवक्त्रनेत्रपरमस्पर्धाभरात् प्राकृतात् ॥१२५।। श्वेताम्भोरुहि(ह)संगतानतिशितीन् संवीक्ष्य पुष्पव्रता(जा)न् निश्चिन्वन्ति हि मानसे निजनिजे मेधाविनोऽनारतम् । येन[नाऽकारि?] समं मुखेन सुगुरोः स्प र्धाभरः प्रोच्चकैस्तस्माल्लेगुरमुष्य दुःकृतचयाः किं मूर्तिमन्तोऽभितः ॥१२६।। त्वं जानासि सखे ! कुतः सितरुचिः संक्षीयते ? नो, अहं जाने मित्र !, वद त्वमेव, रुचिशो[ऽद:?] श्रूयतां, सोऽवदत् । बाहल्याद् वृजिनस्य, तच्च भण भोः ! कस्मान्मधा स्पर्धनात् तत् केनास्ति, मुखेन, स(क)स्य स पुनः, श्रीमत्कमाजन्मनः ॥१२७|| सवृत्तः सकलः सितः स्वजनुषः पद्मासगर्भः स्वयं यद् ग्रस्येत विधुंतुदेन हिमरुक् तद्यौक्तिकं मन्महे । संहर्ष चकृवान् मुखेन सुगुरोः साकं यतोऽयं कुधीन स्यात् किं वद् कोविदप्रतिवचस्तज्जन्मनः पापकात् ।।१२८।। पात्यन्ते हिमवालुकाकणगणे कृष्णानि यत् पञ्चषट् तद् दृष्ट्वा विमृशन्ति पण्डितजना एवं स्वके मानसे । त्वद्वक्त्रस्य गुरो ! लसत्परिमलस्पोद्भवात् पातकात् लोहोद्भूतघनप्रहारनिचयान् स प्राप्तवान् चा(बा)लिशः ॥१२९॥ मा गर्वं कुरु पूर्णताविषयकं राकेयशीतयुते ! यत् त्वत्तोऽप्यधिकोऽस्ति मद्गुरुमुखस्फाराऽमृतप्रगहः । आधिक्यं कथमित्यवैहि स दिवा रात्रौ च धामाग्रिमः पूर्णोऽक्षीणतनुर्विधुन्तुदमुखी ग्रासः कलङ्कोज्झितः ॥१३०॥ यद्रात्रौ स्वकरप्रसारणघ(ध)र(?)स्तत् किं शशिन् ! याचितुं तत् किं ब्रूहि सखे ! यदस्ति कुतुकं तच्छूयतां कोविदाः । अत्यन्ताधिकरोचिषो गुरुमुखादभ्यर्थये प्रग्रहाऽनङ्कस्याव्रियतां यकैर्बत मया तान् दापयन्तु क्षणात् ॥१३१॥ कार्यं ते कथमस्ति हे हिमरुचि(चे) !, जानीत यूयं न कि ? नो नो, दुःखभरात, स एव भवतः कस्कः ?, शृणुध्वं च तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org