________________
अनुसंधान-१६ • 22 प्रोद्यद्वक्त्रबहित्रकं दृढतरं बाभात्यसाधारणं दष्ट्वैतद्वितरन्ति मानवगणाः संसारवारांनिधिम् ।।११८॥ स्वामिंस्त्वद्वदनं विराजतितरां मापालचूडामणिस्तन्मूर्ध्यातपवारणं हि भवितुं भालस्थलं त्वीहते । विस्फूर्जद्विजधोरणी सुमतति सासु दण्डायते दृग्वालव्यजनद्वयं च सुभटाः कान्तिव्रजा लक्षशः ॥११९।। वृत्तस्तारतरद्विजोडुसहितो बाभाति वक्त्रोल्लसज्जम्बूद्वीप इहाग्रनक्रदिविषद्भूमीधरानुत्तरः । दृग्द्वन्द्वाऽमलपुष्पदन्तकलितोऽलीकाऽमृतांधस्सरिद्युक्तोऽन्तःस्थरसज्ञकाविषधराधीशेन विभ्राजितः ॥१२०।। पूज्य ! त्वन्मुखभूधवप्रसृमप्रोद्यत्तरः प्रग्रहव्याजानेकजिताहवोद्भटभटवातात् प्रणश्य क्षणात् । शङ्केऽहं परिवेषसालमतुलं प्रावीविशच्चन्द्रमाः निर्यात्येष ततः परं नहि कदाप्याश्चर्यकृत् तत् सताम् ॥१२१।। स्पर्धाऽकारि मुधा मया गुरुलसद्वक्त्राम्बुजेन स्वयं तेनाऽयं दुरितेन दुर्गतिगतौ दुःखीभविष्याम्यहम् । निश्चित्येति हृदि स्वके दरभरात् पाथोरुहं कम्पते स्पर्धा नो महता समं गुणकरी दोषाय सा केवलम् ॥१२२॥ शीतादेः सहनात्ययस्य पिकजं नाप्नोत् त्वदीयाननौपम्यं तज्जनितादसातनिवहान्तित्यक्षु तस्मादसून् । जग्रा[हा]त्मपलाशकैतवकरे क्ष्वेडं द्विरेफच्छलाज्जानन्तीति कुशाग्रतीक्ष्णमतयो ये सन्त्यनन्तातले ॥१२३॥ त्व[व]क्त्रेण समं तपागणपते ! स्पर्धा व्यधाद् भूयसी पद्यं तद्भवदुःकृतक्षयकृते सत्पात्रपाणौ वरे । सत्पारिप्लवपुष्पभुक्ततिमिषात् क्षाली गृहीत्वाभिधां तच्छंशोजपतीव कोविदवरा इत्येव संविद्रते ॥१२४।। उत्पेदेऽनिमिषापगापयसि किं पाथोरुहं विज्ञ हे ! जानीषे, शृणुताप्लवाय, स पुनः कस्मै वद प्राज्ञराट् ! ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org