________________
अनुसंधान-१६ .21 साधर्मिकाणामशनानि(दि)वस्तुभिविधाय भक्तिं परमार्हता मुदा । द्युम्नं स्वकं जन्म निकेतनं तथा पवित्रयामासुरनेकभङ्गिभिः ।।११२।। समग्रतीर्थेश्वरमन्दिरेषु त्रिकालविद्-बिम्बनमस्क्रियार्थम् । पञ्चारवोद्घोषणपूर्वकं शिशुजगाम सङ्घन युतः प्रमोदभाक् ॥११३।। इत्याद्यनेकं शुभपर्वपुण्यकृत्यं हि निर्विघ्नतया बभूव । अकब्बरक्ष्मापतिदत्तमानश्रीतातनामस्मरणप्रसादात् ॥११४।।
अथ श्रीगुरुवर्णनम् ॥ विस्फुर्जद्विजशुक्तिजोऽरुणरदाच्छादोपधिप्रस्फुरद्रक्ताङ्कोऽम्बकमीनभासुरतरः पूर्णोऽशुपाथश्चयैः । लक्ष्मी-श्रीपतिसेवितः प्रतिदिनं सद्भारतीवीचिभिगर्जिध्वानमहो सृजन् विजयतां यद्वक्त्रदुग्धोदधिः ॥११५॥ अत्यन्ताग्ररदावलीभि(नि?)भघटीमालाभिरामः सदा चक्षुषूर्वहयामलः प्रविलसद्माणप्रणालीश्रितः । भालोद्भूतविशालपावनलसल्लेखासुकुल्याधर सप्तक्षेत्रसुसेचनाय विधिना वक्त्रारघट्टोऽघटि ॥१६॥ नासावंशविराजिनीं श्रुतिलतापत्रावलीपूरितां दन्ताच्छादसुपल्लवां द्विजशुमां भ्रूभङ्गिभृङ्गावलीम् । दृग्द्वन्द्वस्तबकां युतां घृणिजलै रन्तुं हि भाग्यश्रियो यस्य स्फारमुखप्रसूनलतिकावार्टी व्यघात् पद्मभुः(भूः) ॥११७॥ नासाकूपकभासुरं श्रुतियुगारित्रं सुवक्त्राम्बरव्याजप्रोच्छ्रितशुभ्रचीवरधरं रेखात्रिकाद् रश्मिभृत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org