________________
२७
अनुसंधान-१५ • 42 विद्वच्चकोरकमलक्षणमुक्तदेह सन्देहहारकमलस्य वचोविलासः ॥२९।। वरतनु तारकमलणः सत्यान्धकमलणभान्धकदघौघे । नरकमलणाभनरकध्वंसे समकमलणाद्विरत: ॥३०॥ भूतिकमलकहरणः प्रणमद्देशकमलबद्धसार्वायुः । सूर्पकमलणविमुक्तः प्राणिभ्यो भावुकमलासीत् ॥३१॥ चरणमनङ्कमलासीत्सत्यागदयाढ्यनन्दकमलायः । कमलाख्यमपि ददानस्तथा निधानं महाकमलम् ॥३२॥ आनम्रपाकमलणः स्वामी मध्यकमलं निधि यच्छन् । नन् पृथुकमलणगोयायजूकमलणोद्भवं दुरितम् ॥३३।। मध्यकमलकेतुहतः प्रसन्नतारकमलजदविष्टः । दानत्रिकमलतुल्य: सहस्रकमलसुतगुणौधः ॥३४॥ रिपुरङ्कपञ्चकमल: श्रेयश्रीवल्लरीकमलतुल्य: । गाम्भीर्यकमललश्रीः षट्कमल इव व्रती सार्वः ॥३५॥ निर्मलसहस्रकमलाजलवत्कमलश्रियाऽस्तपूर्णशशी । जगति चतुःकमलसमः समवसृतौ सुकमलभ्यपद(:) ॥३६॥ सार्वः कमलजनादः श्रेयोनिर्माणपञ्चकमलसमः ।
कमलजकेतुजिनोक्तावतारकमलजनिधि यच्छन् ॥३७॥ १.चन्द्रलाञ्छन, २.सन्देहहरणे शिवो महेशः शिवो हि संहारदक्षः, ३.शिव, ४. रस्यं आस्वादनीयं, ५.तारकदैत्यस्य मरणं यस्मात्स कात्तिकेयः, ६.अन्धकमरणो ऊडः, ७.नरकमरणः कृष्णः, ८. समे समस्ताः का: प्राणिनस्तेषां मरणं हिंसा, ९.मरको मारि, १०. कमलमिव कमलं मस्तकं दशकमलो रावणः, ११.सूर्पकदैत्यमरणः कामः, १२.भद्रं मङ्गलं दत्तवान्, १३.चारित्रं नि:कलङ्कं अलासीत् गृहीतवान्, १४.नन्दकः खङ्गः तं मलते नन्दकमलः कृष्णः स इवाचरतीति नन्दकमलायतीति नन्दकमलायः १५.पद्मनामा निधिः, १६.महापद्मनिधानं, १७.पाकदैत्यस्य मरणं यस्मात् स पाकमरण इन्द्रः, १८.मध्ये को यत्र स मल शब्दः एतावता मकराख्यो निधिः, १९. पृथुको बालस्तस्य मरणं हत्या, यायजूको ब्राह्मणस्तस्य मरणं हत्या, २०. मकरकेतुः कामः, २१.नेत्रः, २२.मलो देवादिपूजायां अश्राद्धः, २३.दूरः, २४. कमलमिव कमलं मस्तकं त्रिकमलशिराः धनदः, २५.सहस्रकमलो सहस्रमस्तकः शेषाहिः, २६.वैरिमृगे, २७. सिंह: पंचाननः, २८. कं पानीयं मलते धरति कमलो मेघ:, २९.कं जलं तस्य राशिर्यस्य स कमण्डलः समुद्रः, ३०. षण्मुखः कात्तिकेयः, ३१.सहस्रमुखी गङ्गा, ३२.मुख, ३३.ब्रह्मा चतुर्मुखः, ३४. सु शोभनाः काः प्राणिनस्तैर्लभ्यपदः, ३५.कमलं जलं तत्र जायते कमलजः शङ्ख, ३६. पञ्चमुख ईश्वरः, ३७.शंखकेतुर्नेमिजिनः, ३८.शङ्खनामा निधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org