SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१५ . 41 गृहपतिकमलोटन्यादारी सकृच्च ॥२८॥ कमलमिव दिनेशः प्राप्य दत्ते कुयोगं तदिव कमलपूजां वामदेवो जनानाम् । कमलभमिव पूर्णं पूर्णिमासीसु योगं त्वमपि कमलरम्यो भक्तिभावं नतानाम् ॥२५॥ कमलमिव खगेनाब्जेन युक्तं सुकालं जनजनकमलेखं वर्तमाख्याति सिद्धिम् । कमलभवकृतं सद्दुळवायं क्षिणोति तदिव "कमलजातप्रायधीरैः श्रितस्त्वम् ॥२६॥ सङ्क्रीडतीव उषया कमलाङ्क ईश ! त्वं वीरसिद्धिरमया कमलाभिरामः । तद्वच्चिरं कमलमाधिकसद्गुणः सन् दद्यान्महांसि "कमलाङ्करुचिप्रतापः ॥२७॥ विश्वत्रयीकमलनप्रतिमान्तिमार्हन् गतिराम्बकमलद्युतिकिण्वहारी । संसारतारकमलेखेकपुष्यमुख्य नक्षत्रपेटकमलार्जकमीश विश्वम् ॥२८॥ राज त्वदम्बकमलस्तनुषे वदस्त्वं अंहःपुलाकमलवन्नघनिम्नगानाम् । १-२-३. मध्यमाभाव इति सर्वत्र योज्यं, करोटं भाजनविशेषस्तेनाऽन्यदपि पात्रं लक्ष्यते तत्र न्यादकारी-भोजनकृत, ३अ.एकवारं, ४.कं यमं देवतात्वेन मलति धरति कमलं भरणी नक्षत्रं, ५. तथा, ६.मस्तकपूजां, ७.ईश्वरः, ८.कमग्नि देवतात्वेन मलते कमलं-कृत्तिका नक्षत्रं, ९.कं आत्मानं मलति कमलं शरीरं तेन रम्यो-रमणीयः, ९अ.नतानां भक्तिभावं प्राप्य सुयोगं दत्से, १०.कमलं ब्रह्माणं मलति-कमलं रोहिणी नक्षत्रं, 'रोहिणि चंददिवायर हाथिष्का दोघडीआई'इत्युक्तत्वात्, ११.सूर्येण, १२.अब्जेन-चन्द्रेण, १३-१४.मश्चन्द्रः स लेखो देवताऽस्य तत् मलेखऋक्षं नक्षत्रं मृगशरो नक्षत्रं, व इवार्थे, यथा मृगभं सूर्येण चन्द्रेण च सिद्धिमाख्याति तथा त्वमपि, १५.कमलं भरणीनक्षत्रं तस्माद्भवो राहुस्तत्कृतं दुर्व्यवायं दुष्टं विघ्नं क्षिणोषि, १६. कमलं रोहिणी नक्षत्रं, तस्माज्जातो बुधग्रहः, १७. कमलो मृगः ऋष्यनामा सोऽङ्के यस्य स कमलाङ्कोऽनिरुद्धो यथा उषया क्रीडति तथा त्वं सिद्धिरमया क्रीडसीति, १८.कमलशब्देन पद्माभिधानः संख्याविशेष: कमल इति मासंख्यातोऽप्यधिकगुणाः, १९.उत्सवान्, २०. कमलाङ्कः पद्मप्रभजिनस्तस्य कान्तिस्तद्वत्प्रतापोयस्य स, २१. कं मस्तकं तस्य मण्डनं मुकुटः, २२.अनिन्द्यः, २३. अम्बकं नेत्रं तस्य मण्डनं कज्जलं, २४.अर्थात् कृष्णं, २५.मो रुद्रः स लेखको देवता यस्य तत् मलेखकमार्दानक्षत्रं, २६. अराजकमनाथं, २७.अम्बकं लोचनं तस्मात्, महुड वृद्धौ मंहते धातूनामनेकार्थत्वात् जायते इति अम्बकमन् चन्द्रस्तद्वल्लसतीति क्विपि स्वादिदीर्घाभावे अम्बकमण्डलः, २८.सङ्क्षेप, २९.मरुः पर्वतः स इवाचरन् मरवन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy