________________
अनुसंधान-१५ . 40 जनुष्यासीत्तेऽमःकमकलल(कमलकल?) राशिर्महमयः । क्षमामध्ये क्षान्तः सपदिकमलाकेलिकरणा । वदन्वेदार्थोघं जिनकमलहँसांकसदृशः भवाब्धेः संशोषे कमलशभवः शम्भवचणः ॥१९॥ कमलमुखविपक्षो मध्यमाऽभावतस्त्वं कमलमुखकुरङ्गैः सेवनीयो वनान्ते । कमलचरणभक्तैनॆवलक्ष्यस्वरूपः कमलभयविमुक्तः प्राणमत्कन्धराणाम् ॥२०॥ कमलजनकतेजाः सौख्यसम्पत्प्रदाता कमलजननरोव्यागेऽपि सन्तापहारी । कमलमितमनन्तं मुक्तिसातं भवन्तं कमलमुखसमस्तव्यन्तरेन्द्राज़मीडे ॥२१॥ सकलकमलयातप्राज्यलब्धिप्रपञ्च: सुमृदुकमलणे श्रीन्यकृतस्वर्णवर्णः । विशदकमलकान्तस्थायिसन्नीरभाषः प्रसृमरकमलङ्कोपद्रवद्रावकोऽसि ॥२२॥ सरुचिकमलबालव्यालरौद्रे प्रघाते निशितकमलपत्रच्छिन्नवीरोद्धजाते । हरिभरकमलेणुव्याप्तरूपे जयन्ते विश इह "कमलाले नामभाजो लभन्ते ।।२३।। अरुणकमलशाख: कल्पशाखीव विश्वे दधिकमलबकाभव्याहृतिः शान्तिदाता ।
कुरुबकमलञ्जोद्यानवासी व्रतस्थो १.कलकील(कल)राशिः, २. कलाकेलिः कामः, ३.कलहंसाङ्को ब्रह्मा, ४.कलशभवोऽगस्तिः, ५.कमलमुखाः कृष्णाऽऽननाः, ६.कमलमुखा वानराः, ७.कालो-महाकालः, ८.कालो यमः, ९. कालो यमस्तस्य जनकः पिता सूर्यः, १०.कालो मरणं, ११.कालमनेहसं, १२.कालो व्यन्तरः, १३.करो हस्तः याता प्राप्ता, १४. करणं शरीरं, १५. करको नीरपात्रं, १६.करकः, करवाल, १७.करपत्र, १८. प्रत्रास्य, १९. करेणु, २०.नराः, २१.कराले, २२.करशाखो नखः, २३.करम्बः, २४.करञ्जः ।
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org