SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २३ २४ २७ अनुसंधान-१५ • 43 आरक्तकमलयुगलो वीरोऽर्हन् गूढकमलभीतिहरः । कमलजभृद्यति दितिजध्वंसे ध्यातो हृदयकमले ॥३८।। कमलादितपोदेष्टा कविभिः कमलादिचित्रवर्ण्य गुणः । नाभिकमलस्वरूपं शंसति सत्यं च कमललये ॥३९।। कमलवदन्तर्येयं सेव्यं च सहस्रनीलकमलगणैः । चम्पकमलजातिनवश्रीतिलकमलादिसुमपूज्यः ॥४०॥ वाग्जितपूपकमल को नैषि वशं त्वकमलभुवां स्त्रीणाम् । जनदीपकमलकोकिलकाकमलादीन् प्रबोधयसि ॥४१।। विश्वप्रकाशकमलप्रभुद्युतिः कनकमलतनुः सार्वः । मानामयजतुकमलल्युपदेष्टा प्रशमिनां कमलकायः ॥४२॥ गीतिः ॥ प्रणतमहाकमलाह्वयचक्रधरः कमलहरिनतः सार्वः । पूरयति कमलवासां सनामलवाहनाध्येयः ॥४३॥ यः सार्वकनकमलसत् तावकमलयति मुखं स्म तस्यैव । नष्टेन साकमलसत् दुर्गतिमयमधिकमलसच्च ॥४४॥ भक्त्या पावकमलसत्त्वां नायकमलचयत् शुचिं सस्वम् । क्षारकमलावयद्यस्तस्य भवोदकमलवदीश ॥४५॥ १. कमल इव कमलः पादः, २. गूढपादः सर्पः, ३.कमलजं शङ्कं बिभर्तीति कमलजभृत्कृष्णः स इवाचरतीति कमलजभृद्यति, ४.कमलाकृतिकत्वात्पञ्चपदानि ध्यायेत, ५.कमलनाम्ना तपः, कमलनी ओली प्रसिद्धा, ६.चित्रालङ्कारं, ७.को वायुस्तस्य मलो धरणं रोधनं पवनसाधना तस्य लसे ध्याने नाभिकमलस्वरूपं-नाभौ कमलाकारो वर्तते , ८.कमलतपः तपस्विभिः, ९.नीलकमलं नेत्रं सहस्रनेत्र इन्द्रः, १०.पुष्पजाति, ११.पुष्प, १२.पदैकदेशे पदसमुदायो-पचारान्मलो दलामलो दमनकः, तथैव द्वितीयवारे दलामलो दमनकः, १३. मण्डकः, १४. पदैकदेशे पदसमुदायोपचारान्मलो हेमलः स्वर्णकारः, १५.हेमलः सरटः, १६.विमलजिनः, १७. विमलं निर्मलं पदैकदेशे पदसमुदायोपचारात् अत्र ग्राह्य, १८.हिंगु, १९.एकदेशविकृतमनन्यवदितिन्यायात्-कमलं कोमलं एकदेशविकृतस्योपलक्षणत्वादनेकदेशविकृतस्याऽपि अनन्यवदावात्-को इत्यस्य स्वरव्यञ्जन समुदायस्यापि ग्रहणात्-मल-कोमलमिति - एवं अग्रेऽपि ज्ञेयं, २०.महापद्मचक्री, २१.पद्म वासुदेवः, २२.लक्ष्मी, २३.राजहंसवाहनः, २४.रसण आस्वादनस्नेहनयोः - कनकं धत्तूरं अरसत् आस्वादितवान्, २५.तस्य तव मुखमरिरिवाचरति स्म, २६.विंट, २७.अरसत् सुतवान् रसशब्दे, २८.क्रीडितवान्, २९.पवित्रं, ३०.अलसत्-श्लेषितवान् लसश्लेषणक्रोडनयोः, ३१.अरचयत्, ३२.पक्षिपाशं, ३३.लव इव आचरत् अलवत्. ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520515
Book TitleAnusandhan 1999 00 SrNo 15
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy