________________
अनुसंधान-१५ • 22 भ्रष्टांशुकः श्राग् विललाग भूयो रागाविलः शीतकरोऽम्बरान्ते ॥१२१॥ जहार हारावलिहेतवेऽहः - श्रीस्तारमुक्तौघमभूत्तदा किम् ? । भूयस्तरां स्तात्पुनराप्स्यतीयंश्यामा समुद्रप्रियपुत्रपत्नी ॥१२२॥ पाथोधरध्वानमपार्थयन्तो ये स्म प्रथन्ते दधिमन्थनादाः । मन्येऽपविघ्नाग्र(ग्रि)मवत्सराप्तिप्रौढोत्सवे ते पटहप्रणादाः ॥२३॥ उद्योगिनां जागरणाय साधा रण्येन दीर्घाः कृकवाकुघोषाः । पुण्यार्थमद्रव्यविभातभेरीभाङ्कारशोभां बिभराम्बभूवुः ॥१२४॥ शोणौ धुनीधन्यवधूमिपाणिप्रेडोलिनौ प्रेमगुणेन बद्धौ । भूयो भवद्योग-वियोगवर्यावासञ्जतां कोकविलासगौलौ (?) ॥१२५।। वर्धापयन्ति स्म सुपर्ववध्वः श्रीवीरनिर्वाणदपर्वरात्रिम् । पेतुः समन्तादिति शाड्वलेषु प्रालेयलेशव्यपदेशमुक्ताः ॥१२६॥ दुग्धाज्ययोर्धामनि चेदियन्तः स्युर्मोदकाः पर्व तदेति मन्ये । स्मराब्जहस्ताभिनयालिगुञ्जा - गीभिर्न कस्को जहसेऽब्जिनीभिः ॥१२७॥ दीपालिकापोषितपूर्जनाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org