________________
अनुसंधान-१५ • 20 मग्रेरस(सर)त्वेन सरस्वति ! त्वाम् जाड्येन चण्डेन विडम्बितः त्वाम् गोस्वामिनी विज्ञपयाभ्य(म्य)विनः ॥१०८॥ जाड्यन पीड्ये जनयित्रि !. चित्रं वेविद्यमानावरणव्रजोऽहम् ! तेनेदमुच्छिन्द्धि निजांहिनिष्ठा
पृष्ठोल्बणाग्निष्टनिषेवणान्मे ॥१०९।। स्वभावस्वत्त्व(सत्तत्त्व?) वती सती मे दभ्रं हृदभ्रं श्रितवत्यपि त्वम् । हत्वा तमः प्रातिभसुप्रभातं नातन्तनीषीदमयौक्तिकं ते ॥११०॥ भाग्योदये कामगवी पुरोगा संपादयन्ती हितमाश्रितानाम् । तस्मादभाग्येऽपि मदिष्टमेकं तेभ्योऽधिकायास्तव दातुमर्हम् ॥१११॥ प्रेखोलनामौलिगचामरालीदण्डाः किरीटाग्रनिविष्टरत्नाः । जाड्यं हरन्ते तव कर्मकों ऽप्यैङ्कारवर्योपमया स्मृताङ्ग्यः ॥११२॥ तेनैतदल्पार्थकृतेऽर्थना तेनाऽर्हा फलायेव मरुल्लतायाः । मातर्ममाऽतः करुणाकटाक्षं मुञ्चोपरिष्टाद् घटितेष्टलक्षम् ॥११३॥
स्तवनम् ॥ विज्ञप्तिमेवं कृतवन्तमाख्यत्तं मूर्खमुख्यं विधुजिन्मुखी सा । उत्तिष्ठ पात्रीकुरु वक्त्रमित्थं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org