________________
अनुसंधान - १५ • 5
वाग्वादिनी सन्निधिवत्तितत्तद्विद्याव्रजादेकतरां दिधीर्षुः । मन्येऽक्षमालाकमनीयपाणिः
पाशं गताशङ्कमुपाददे सः गम्भीरनाभीनिभकूपकूले तस्य व्यलोकि स्रवदुत्रवारिः ।
अङ्गुष्टपुष्टाङ्गवृषादवाप्तभ्रान्तिर्घटीयन्त्र इवाऽक्षसूत्रम् मेरु त्रिरत्नोज्ज्वलमेखलं नाऽ स्खलज्जपन्नप्युदलङ्कृताऽसौ । विद्याधरेशा अपि यं न शक्ताः स्युर्लंघितुं किं तमनाप्तविद्य: हृत्पद्यतोऽतिप्रणिधानमुद्रा
बन्धेन निर्यातुमपारयन्त्या । तस्य प्रसज्जपहुङ्कृतीनां दम्भादवि श्रुतदेव्यलिन्या
प्राप्तोऽथ सारस्वतमन्त्रजापारम्भाद्दिनः पञ्चदशोऽपशोकः । प्रामुमुदन् तत्र मनांसि नृणां दीपालिकावर्षतटाकपालिः सम्पूर्णचूर्णद्रवसान्द्ररेखा प्रसाधिता यत्र विभान्ति सौधाः । गोक्षीरधारोज्ज्वललो [ल] लक्ष्मीलीलाकटाक्षावलिशालिनः किम् आशङ्क्यते यत्र विलोक्य लोकैलिप्ताऽऽलयप्राङ्गणचूर्णरेखाः । अर्केण कोपात्करकर्त्तरीभिः
Jain Education International
-
11611
॥८॥
॥९॥
॥१०॥
॥११॥
॥१२॥
For Private & Personal Use Only
www.jainelibrary.org