________________
॥ सारस्वतोल्लास-काव्यम् ॥ श्रीभारत्यै नमः ॥
॥१॥
॥२॥
॥३॥
॥३॥
कश्चिज्जनो लज्जितहज्जडिम्ना शुश्रूषितश्रीगुरुपारिजातः । सारस्वतं सारमवाप्य मन्त्रं नक्तंदिवाऽजायत जञ्जपूकः पद्मासनं पूरयति स्म जापं कुर्वन्नपापं यदसौ सशौचः । मेनेऽखिलैरस्खलितप्रसर्पज्जाड्यारिबन्धाय स नागपाशः गोक्षीरधाराधवलं वसानः स(सु)कोमलं वस्त्रयुगं बभासे । जापादुपागत्वरशारदायाः पुरस्सराङ्गप्रभयेव लिप्तः तस्याऽतिलोलावपि लोचनाली नालीकतुल्यं कविमातृवक्त्रम् । उद्दामसौन्दर्यमरन्दलोभाज्जाने जहीतः स्म न जातु जापे भाति स्म तस्य स्फटिकाक्षमाला माला नु कल्पद्रुमकुमलानाम् । त्रपामि साक्षाद्यदि जातु देवीं तत्पूजयामीति करे गृहीता तेनाऽङ्गली पत्रलपाणिरक्ताऽशोकेऽक्षसूत्रस्य मिषेण बद्धा । श्रीशारदातुष्टिवशागमिष्यद्विद्याङ्गनान्दोलनकेलिदोला
॥४॥
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org