SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 54 अतीन्द्रियं चेत्तहि तत्सद्भावे किं प्रमाणमित्यत आह-तथाऽपीति । महदुद्भूतरूपस्पर्शवद्र्व्यं त्वचो योग्यमिति । रूपवद्रव्यं त्वचे योग्यमित्युक्ते परमाणौ व्यभिचारस्तव्यावृत्तये महदिति । महद्र्व्यस्फा(स्पा) र्शनमित्युक्ते वायौ व्यभिचारस्तद्वारणार्थं रूपवदिति। महद्रूपवद्रव्यं स्पार्शनमित्यु प्रभायां व्यभिचारस्तद्व्यावृत्तये महदुद्भूतरूपस्पर्शवदिति । भवतु एक एक पटत्व-घटत्वयोः समवायः, परं समवायसिद्धिस्तु जाता एवं चेत् अयं पट इति घटत्वप्रकारकं, अयं घटः इति पटत्वप्रकारकं ज्ञानं स्यात् तेनाऽऽधाराधेयाख्यः स्वरूपसम्बन्ध एवाऽस्तु न समवाय इति भावः । । अन्यथाख्यातिपञ्चकमिति प्राञ्चः। अन्यथाख्यातित्रिकमिति मणिकृत स्तथा हि- यद्वस्तुपुरस्कारेण यस्य पूर्वभावोऽवगम्यते तत्तेनाऽन्यथासिद्धम्। या दण्डपुरस्कारेण दण्डत्वस्य पूर्वभावोऽवगम्यते इति दण्डत्वं दण्डेनाऽन्य-थासिद्ध अन्यत्र क्लुप्तपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वं अन्यथासिद्ध त्वम् । यथाऽन्यत्र क्लृप्तपूर्ववर्त्तिनो गन्धप्रागभावादेव गन्धोत्पत्तौ तत्सहचरि रूपप्रागभावो गन्धेनाऽन्यथासिद्धः । एकं प्रति पूर्वभावे गृहीते एव परं प्रति पूर्वभावो गृह्यते तत्तेनाऽन्यथा सिद्धः । यथाऽऽकाशस्य शब्दं प्रति पूर्वभावे गृहीते एव अपरं घटादिकं प्र पूर्वभावो गृह्यते, तत्तेनाऽन्यथासिद्धः । इत्यन्यथाख्यातित्रिकमिति स्थितम् ।। । विशिष्टोनुभवे हि विशेषणज्ञानं कारणं न तु स्मरणेऽपि, विशेषण ज्ञानं विनाऽपि स्मरणोपपत्तेः । अन्यथाऽनवस्था स्यात् । कथमनवस्था भवती चेत् - शृणु - अनुभवात्मकविशिष्टज्ञानं प्रति स्मरणात्मकविशिष्टज्ञा विशेषणज्ञानत्वेन कारणम् , विशिष्ट ज्ञान मात्रस्य विशेषणज्ञानजन्यत्वात अनुभवात्म-कविशिष्टज्ञानजनकीभूतस्मरणात्मकविशिष्टज्ञानं प्रत्यपि विशेषण १३. मुद्रिते पृ. २०। १४. मुद्रिते पृ. ३७ । महदुद्भूतस्पर्शवव्यत्वेनैव त्वचो योग्यता इति मु.। १५. मुद्रिते पृ. २२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy