SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 53 निर्विकल्पकचाक्षुषे; तदुभयं सविकल्पके चाक्षुषे । परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकत्व(त्र) समावेशः सङ्करः । जन्यधीर्व्याप्तिधीः, तज्जन्या धीरनुमितिः, तन्मात्रवृत्तिजातिर्घटत्वं; तच्छूयत्वे सति ज्ञानत्वस्याऽनुमितावपि सत्त्वादतिव्याप्तिस्तद्व्यावृत्तये शून्यपदम् । जन्यधीजन्यमात्रवृत्तिजातिरनुमितित्वादिकं, तच्छून्यस्य परमाण्वादावतिव्याप्तेः चस्मज्ञानपदम्। जन्यः कुलालः, तज्जन्यो घटः, तन्मात्रवृत्तिजातिर्घटत्वं; तच्छून्यत्वे सति ज्ञानत्वस्याऽनुमितावपि सत्त्वादतिव्याप्तिस्तद्व्यावृत्तये धीपदमिति दिक् । जन्यधीाप्तिधी:(१) सादृश्यधी:(२) पदधी:(३), एतज्जन्या पोरनुमितिधी:(१) उपमितिधी:(२) शब्दधी:(३); तन्मात्रवृत्तिजातिः अनुमितित्वं(१) उपमितित्वं(२) शब्दत्वं च(३) । तच्छून्यत्वे सति ज्ञानत्वं साक्षात्कारमात्रे-साक्षात्कारत्वावच्छिन्नसाक्षात्कारे वर्तते । साक्षात्कारान्यावृत्तित्वे सति साक्षात्कारवृत्तित्वं साक्षात्कारत्वं इति फलितोऽर्थः । ननु श्रुतिवाक्यजन्यं ज्ञानं श्रवणं (१) इतरभेदानुमितिमननं (२) मुहुर्मुहुसुचिन्तनं निद(दि)ध्यासनं, तथा च जन्या धीः श्रवणधीर्मननधीनिद(दि)ध्यासनधीस्तज्जन्या धीः साक्षात्कारधीस्तन्मात्रवृत्तिजातिः साक्षात्कारत्वं, तत्र तच्छून्यत्वे सति ज्ञानत्वाभावात्तत्त्वसाक्षात्कारे व्यभिचार इत्यत आह-मानसे ति । पानसावृत्तित्वेन जातेविशेषणीयत्वात्, मानसत्वं च जातिविशेषः इत्यास्तां विस्तरः । निर्विकल्पकमतीन्द्रियमिति। अतीन्द्रियत्वं च साक्षात्कारनियामकप्रत्यासत्यनाश्रयत्वम् । साक्षात्कारत्वनियामिका या प्रत्यासत्तिस्तदनाश्रयत्वमित्यर्थः । यत्र घटत्वविशिष्टो घटस्तत्सम्बन्धश्चेत्युभयं भासते, केवलं घटो भासते सादृशं ज्ञानं साक्षात्कारः; अयं घट इति ज्ञाने घटत्वतत्सम्बन्धादेर्भासमानत्वात् त व्यभिचार: स्यादित्यत आह - अयमिति । निःप्रकारकमित्यर्थः । १२. मुद्रिते पृ. १८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy