________________
55
ज्ञानत्वेन हेतुत्वे वाच्ये तद्विशेषणज्ञानमपि विशिष्टज्ञानम् । तथा च तत्राऽपि विशेषणज्ञानं कारणम् । तदपि विशिष्टज्ञानम् । तत्राऽपि विशेषणज्ञानं कारणं, एवमनवस्था स्यात् ।
र्ननु संयोगो न प्रत्यासत्तिरित्यत्र द्रव्यग्रहत्वावच्छिन्नं प्रति संयोगत्वेन कारणता । तथा च द्रव्यग्रहत्वेन संयोगत्वेन कार्यकारणभावः इति सिद्धम् ।
ननु चक्षुः संयुक्तघटादिसमेवतग्रहे क्लृप्तः संयुक्तसमवायः । तेनैव क्षुः संयुक्तकपालादिसमवेतघटदिग्रहसम्भवे संयोगस्य प्रत्त्यासत्त्यन्तरकल्पने चैवमिति चेत् । न । द्रव्यमात्रस्य संयुक्तसमवायेन ग्रहासम्भवात्, आत्मनो
निरवयवत्वेनाऽसमवेतत्वात्, संयोगेनैव मनसाऽऽत्मग्रहात् ।
आत्मनि दुःखाभाव इत्यत्राऽधिकरणस्याऽभावत्वे आत्मन एवाऽभाववापत्तिः । अभावस्याऽधिकरणात्मकत्वे दृढं दूषणं दत्तम् । किञ्चाऽधिकरणा-त्मा भावस्तदा कपाले घटये भविष्यतीति प्रतीत्याऽस्ति कपाले पूर्वं घट प्रागभावस्तस्य मालाधिकरणत्वेन स चेत् कपालात्मा तदा कपालस्य सर्वदा सत्त्वाद् घटे विनष्टेऽपि कपाले घटप्रागभावोऽस्तीति प्रतीत्यापत्तिः ।
अथाऽभावस्याऽधिकरणाद्भिन्नत्वे नैयायिकस्य दूषणं दत्ते सादेतदिति । घटाभावो नाऽस्तीति प्रतीत्या घटाभावाभावोऽप्यधिकः स्याद्, भवत्वधिकः इति चेत्, तदा घटाभावाभावो नास्तीति प्रतीत्या तदभावोऽप्यधिकः स्वात् । तत्राऽपि घटाभावे घटो नाऽस्तीति प्रतीत्या तदप्यभावोऽधिकः सादेवमनवस्थाभिया घटभावाभावः केवलमधिकरणमेवाऽऽगतम् । तथा प्राधिकरणमेव सर्वत्राऽभावोऽस्तु, पूर्वोक्तं दूषणमपि भवतामेवाऽऽगतम् । क्वाऽऽहुः घटाभावाभावे घटो नाऽस्तीति प्रतीतेस्तदभावस्तु घटाभाव एव, स्यभावाभावस्तु घटाभाव एव । तथा च नाऽनवस्थेति प्राञ्चः ।
तै जैसमिन्द्रियं चक्षुरिति । तैजसं चक्षुरित्युक्ते दीपसुवर्णादौ मुद्रिते पृ. ४४ । १७. मुद्रिते पृ. ५३ । १८. मुद्रिते पृ. ५३ । १९. मुद्रिते पृ. ६४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org