________________
34
उद्वाहकालकरपीडनमित्यभावे यस्मिन्नभूद्विषयपूर्वकमन्यथा न । श्री श्रीमति प्रवरपट्टनमेडताख्ये सिंहोद्धताऽत्र भवदङ्घ्रिरजष्पवित्रे ||२८|| यत्र स्थिराद्रनगरे नगतुङ्ग केतनं श्रीमारुदेव जिननायकसन्निकेतनम् |
वादित्रदुन्दुभिमृदङ्गकनादनर्तनं सिन्धूत्थमण्डलमभादिव वृत्तमण्डनम् ॥२९॥ पटुकटुकमतमयमकरनगरं
तदपि सुगुरुगुरुगुणजपनम् । जयति मणिगुणनिकरजनभवनं
२
४
स्रगिव नरनिगरण इह जगति यत् ॥३०॥ संसृतितारणतत्परधर्ममतिप्रततिः' पात्रसुपात्रयतिप्रतिपादनरागवती ।
६
श्रावक जावड- भावड - सम्प्रतिकृत्यकृतिः यत्र विभाति सदार्हतसंहतिरश्वगतिः ||३१|| सदाऽस्तिका प्रशस्तिका सदास्तिका प्रशस्तिका । यथा यथा तथा तथा स्वराऽऽनरालिकाऽऽलिका । निरस्तपञ्चचामरा प्रशस्तपञ्चचामरा बृहद्विकणिकाभिधानतस्ततः स्थिराद्रतः ॥३२॥ सहर्षपुलकोल्लसत्करणमेदुरानिन्द्रियो
७
५
विधाय मितवन्दनं विधिवदग्रपृथ्वीदृशा । ललाटघटितस्वपाणि रचयत्ययं हर्षितो विनेय विनयादिवर्द्धन इतीह विज्ञप्तिकाम् ||३३|| दिवानाथे नाथे दिदिविनिलयानां शिखरिणीश्वरे पद्मानां भास्वति सति विभाते प्रतिदिनम् ।
Jain Education International
१. सिंहोद्धतावृत्तम् । २. गृहम् । ३. स्त्रक्वृत्तम् । ४. लता । ५. दान । ६. कार्य । ७. अश्वगतिवृत्तम् । ८. पञ्चचामरवृत्तम् । ८. पृथ्वीवृत्तम् ।
For Private & Personal Use Only
www.jainelibrary.org