________________
25
परां कोटिगतं सत्त्वं निपुणानां मुदे भवेत् । स्तुतो देवैर्हरिश्चन्द्रश्चीराक़र्षी मृताङ्गजात् ।।७८।। प्राणान् दत्त्वापि रक्षन्ति सात्त्विकाः शरणागतम् । वज्रायुधस्तुलां श्रित्वा श्येनात् पारापतं पपौ ।।७९।। सुबह्वपि तपस्तुच्छफलमज्ञानतः कृतम् । अन्येषां मोक्षदात्कष्टादीशाने तामलिर्ययौ ।।८०॥ निष्फलङ्कः कृतो धर्मः स्यादल्पोऽपि महर्दये । इन्द्रोऽभूत् कार्तिकश्रेष्ठी सम्यक् श्रध्दानशुध्दितः ॥८१॥ दुष्कराण्यपि कुर्वन्ति कामिनः कान्तयाऽर्थिताः । एकस्तम्भं व्यधात्सौधं श्रेणिकश्चेल्लणाकृते ।।८२।। नर्ते प्राप्यं महत्पुण्यं लोभः स्यात्सहसा महान् । यज्जिनो बोध्दुमेत्यश्वं जिनार्चाफलमेव तत् ॥८३॥ अप्राज्ञेनापि मोक्तव्यः श्रुताभ्यास: कदापि न । पश्य माषतुषोऽऽप्यासीदनिर्वेदाद्गुणोत्तरः ॥८४।। पशोरपि पदस्पर्श विशुध्दस्य पूयते । जातमश्वावबोधाख्यं जातमश्वान्न किं वद ।।८५॥ सामान्यस्यापि सत्कर्म श्लाघ्यमेवोत्तमैरपि । प्रशशंस न किं वीर: कामदेवं दृढव्रतम् ।।८६।। स्मरेन्मन्त्रं न कः पञ्चपरमेष्ठिनमादरात् । शकुन्तिकापि यं श्रुत्वा पश्य जाता सुदर्शना ||८७॥ ऋतमप्यप्रियं प्रोक्तं शुद्धानामपि दोषकृत् । श्रीवीर: शतकस्यापि प्रायश्चित्तमदापयत् ।।८८।। आर्जवं नाम मर्त्यानां ध्रुवं सर्वोत्तमो गुणः । यत्करीन्द्राधिरूढापि मरुदेव्याप केवलम् ।।८९॥ आत्मशुद्धौ गुणा हेतुर्न दीक्षा नैव काननम् । प्रापाऽऽदर्शगृहस्थोऽपि केवलं भरतेश्वरः ।।९०।। साधूनां दर्शनेनापि स्यात् सरागोऽपि निर्मलः । नाभूदिलातीपुत्रः किं वंशाग्रस्थोऽपि केवली ॥९१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org