________________
26
कृतातिशायि केषांचित् सच्चरित्रं कलावपि । वेश्यावासे रसानश्नन् स्थूलभद्रो जयेत्स्मरम् ॥९२।। महद्भिश्चरितं वर्त्म गौरव्यं स्यात् श्रुतादपि । कालिकाद् वार्षिकं पर्व चतुर्थ्यां कस्य नो मतम् ॥९३।। असाध्यं साधयन्त्यर्थमुपांयेन विचक्षणाः । बोधितोऽनार्यलोकोऽपि धर्म संप्रतिभूभुजा ॥१४॥ पुंसां कालौचितीज्ञानं प्रकर्षाय विशेषतः । विजिग्ये रासकान् दत्त्वा विवादी वृद्धवादिना ॥१५॥ यथातथापि स्वावर्णं व्यस्यन्त्येव विपश्चितः । मृत्युदम्भादृतं वेश्या पादलिप्तेन भाणिता ॥९६।। बहश्रुतत्वं केषांचित्तत्त्वविघ्नाय प्रत्युतः(त)। बोधितोऽतिचिरात् क्लेशैरामराड् बप्पभट्टिना ॥९७।। सद्बुद्ध्या पश्यतां बोध: स्यादल्पादपि हेतुतः । धनपालेऽभवद्बोधो दध्नि निध्याय देहिनः ॥९८॥ सन्तस्तत्प्रेक्ष्य कुर्वन्ति शुभं सर्वातिशायि यत् । ऋते कुमारपालात् को रुदत्याः स्वं पुराऽत्यजत् ।।९९।। प्रमाणमुदयः पुंसां कालाकालधिया कृतम् । एकच्छत्रं कृतं जैन श्रीहेमेन कलावपि ॥१००।
दृष्टान्तशतं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org