SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 21 सुचिरं परिपाल्यापि विफलं व्रतमुज्झितम् । पश्याधः कण्डरीकोऽगात्ततो दीर्घतपा अपि ||२३|| महद्भिस्तुलनामिच्छन्ननात्मज्ञो विनश्यति । स्पर्द्धया स्थूलभद्रस्य पश्य यन्मुनिरन्वभूत् ||२४|| वृथा वाग्विहितो यत्नः कर्म्म भुक्तं विलीयते । भेजे तथात्तदीक्षोऽपि भामिनीं मुनिरार्द्रकः ||२५|| बलिष्ठैरपि दुर्लङ्घ्या तुच्छापि स्नेहशृङ्खला । तस्थौ किं नार्द्रको नदः श (शि) शुना तर्कुतन्तुभिः ||२६|| निःसङ्गैरपि नोपेक्ष्या शासनस्य तिरस्क्रिया । वज्रस्वाम्यपि पुष्पौघमानिनायाऽन्यथा कथम् ॥२७॥ यन्न बुद्ध्यापि सम्भाव्यं धर्मात्तदपि जायते । प्रोदृतं पश्य चालिन्या कूपादम्भः सुभद्रया ॥२८॥ किं पुत्रैरथितैरेकैः श्रिये साध्व्यः सुता अपि । सतीमतल्लिकाः पुत्र्यः पुपुवुश्चेटकान्वयम् ॥२९॥ अयत्नात्तत् कदापि स्यात् यत्कष्टैरपि नो भवेत् । गौतमानुगमादेव दिन्नाद्यैः प्रापि केवलम् ||३०|| दर्शनादपि पूज्यानां जायते पुण्यसन्ततिः । हालिको गौतमालोकादभवत् बोधिबीजभाक् ॥३१॥ यत्र कुत्राप्यसम्भूतं दैवात्तदपि जायते । क्षिप्ता स्रक्कृ ष्णया जिष्णौ वव्रे पञ्चाऽपि पाण्डवान् ॥३२॥ प्रायः पापैर्न लिप्यन्ते सदाचाराः कृतैरपि । तद्भवेऽपि स्म सिध्यन्ति बन्धुघातेऽपि पाण्डवाः ||३३|| न लड्ङ्घन्ते सदाचाराः स्वाम्यर्थेऽपि स्वकं वचः । कृत्वा कौरवसाद्राज्यं प्रावात्सुः पाण्डवाः स्युः (वने) ||३४|| अवाक्प्रतिष्ठाशीलानां ध्रुवं नाशो धनायुषोः । काले राज्यममुंचन्तो विलीनाः किं न कौरवाः ||३५|| को बलस्यावकाशोऽस्ति दैवे प्रत्यर्थितां गते । तटस्थस्यैव दैत्यारेदग्धा द्वारवती पुरा || ३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy