SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 20 अदत्तेऽपि फलं भावाद्विफलं भाववजितम्। नवश्रेष्ठि(ष्ठी) ददौ दानं जीर्णस्तु फलभागभूत् ।।९।। क्षान्त्या तुष्यन्ति तत्त्वज्ञास्तपसापि न तां विना । हित्वा सेान् मुनीन् देव्या नेमे क्षान्तिधनो मुनिः ॥१०॥ गिरां दूरेऽस्तु चित्तस्याप्यत्याज्यो निश्चयः सताम् । व्युत्सर्ग नामुचत् दीप्रे दीपे चन्द्रावतंसकः ॥११॥ दृढशीलसमृध्दीनां स्वयं तुष्यति देवता। पश्य जम्बगुणैर्देव्याः प्रभावः प्रा(प्र)भवो हृतः ॥१२॥ त्यजन्त्यनार्यकर्म द्राक् कुलीनाः प्रेक्ष्य बोधिदम् । बुद्धो जम्बूप्रभोर्वाचा प्रभवः किं न चौरराट् ॥१३॥ विना यत्नं महापुण्यप्राप्तिः कस्याप्यहो भवेत् । पायसं संगमः काप संगमः क्व मुनेरभूत् ॥१४॥ सत्कृतं सुकृतं कुर्यादल्पस्यापि महत्फलम् । किं नाप्त(प्त:) शालिभद्रेण शालिभद्रेण वैभवम्(व:) ॥१५॥ दानं देवैरपि श्लाघ्यं वेलादत्तं विशेषत : । स्मृत्वा दानं ददौ राज्यं मूलदेवाय देवता ।।१६।। न त्यजन्ति दुरात्मानः स्वभावं भाषिता अपि । कालसूकरिक: कूपे क्षिप्तोऽप्यौज्झत्कथं वधम् ॥१७|| स्वयं(स्वं) कष्टे पातयित्वापि प्राज्ञः पापानिवर्तते । कुठारेणांहिमाजघ्ने कि नोज्झन् सुलसो वधम् ॥१८॥ स्फुरन्ति मोहराजस्य मुनीन्द्रेष्वपि केलयः । मुञ्चत्यश्रूणि दिष्ट्यान्ते सूनोः शय्यंभवोऽपि यत् ॥१९॥ दूषयन्ति निजां सन्धां कलयापि न सात्त्विका : । मोदकान् कृष्णलब्ध्याऽऽप्तान् पर्यस्थापयदाच्युतिः ॥२०॥ सर्वस्यापि समो धर्मो नान्वयं सन्तमीक्ष्यते । तत्कुलं नंदिषेणस्य पुण्योत्कर्षश्च तादृश : ॥२१॥ कुलीना व्रतभङ्गेऽपि हितमेवाचरन्त्यहो । दश बोधितवान्नित्यं नंदिषेणोऽवकीर्ण्यपि ।।२२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy