________________
17
ईषल्लघुप्रवेशोऽपि स्नेहविच्छ(च्छि)त्ति पण्डितः । कृतक्षोभो नरीनति खलो मन्थानदण्डवत् ॥६६।। ----- रसायनं यस्याः प्रयोगे पूर्वपूरुषाः । मृता जीवन्ति जीवन्तः पुनः स्युः कीर्तिपीवरा : ॥६७॥ महानाय महतामप्यसाधुसमागमः। पश्य रावणसंसर्गात् बन्धमाप पयोनिधिः ॥६८॥ स्वान्ययोरुपकारी स्याद् ध्रुवं नीच: सदाश्रयः । वर्णाश्रया सखी स्वं च पत्रं च कुरुतेऽचितम् ॥६९॥ लक्ष्मीरसायनाभावे ये मृताः खलु ते मृताः । ये जीवन्ति पुनस्ते स्युर्जीवन्मृतसहोदराः ॥७०॥ सदलाभे कलौ काले श्रीः खेलति खलेषु यत् । ततो मन्ये निराधारा न नारी वर्तितुं क्षमा ॥७१।। कठोरमपि सौख्याय प्रस्तावोच्चरितं वचः । याने वामखराराव: शिवायारतिकार्यपि ॥७२॥ सदा सौख्यकरं क्वपि माधुर्यमपि वर्च्यते । अरतिं कुरुते वीणा रणरङ्गाङ्गणे न किम् ।।७३।। विना भाग्यं वरं वस्तु वृद्धत्वे नोपलभ्यते । अब्धिमन्थोत्थरत्नेषु भिक्षैवासीत् पितामहे ॥७४॥ प्रायः श्रिया वृतं वस्तु लभते भुवि गौरवम् । श्रीवृक्षपर्णमालेव तोरणे मङ्गलप्रदा ॥७५॥ प्रायः पुसां धनोन्मानात् हृदयोष्मा प्रवर्तते । धूमरेखाप्रस्तर: स्यात् वह्नरिन्धनमानतः ॥७६।। साकारोऽपि सुवृत्तोऽपि निर्द्रव्यः कापि नार्घति । व्यक्ताक्षरः सुवृत्तोऽपि द्रम्मः कूटो विवर्च्यते ॥७७।। इन्दिरानादृते यान्ति विद्या एव कलङ्कताम् । अश्रीदृष्टो भवेद् द्रम्मः साक्षरो बाह्यटङ्कितः ।।७८॥ समाश्रयन्ति सर्वेऽपि० ॥७९।। अत्यासक्तस्य मूर्दानमधि० ॥८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org