SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 16 हृदयान्तर्गुणान् धत्ते कोऽपि केसरपुष्पवत् । बहिः कृतगुणो भूयान् दृश्यतेऽथ प्रसूनवत् ।।५२।। सन्ततौ लक्षसङ्ख्यायामेक एव विराजते । तद्विहीनस्थितैरङ्कः शून्यता प्राप्यते ध्रुवम् ॥५३॥ लब्धे सहायमात्रेऽपि विक्रांमन्ति महौजसः । विघ्नाली दलयत्याखुवाहनोऽप्याखुवाहनः ।।५४॥ गुणी लघुरपि स्तुत्यः सुमहानपि नागुणी । यथेापर्वणः श्लाघा लघोः स्यान्नालघोस्तथा ॥५५।। स्थानं सर्वस्य दातव्यमेक ।।५६।। धटमप्यङ्गवगृहन्ति रङ्गतस्त्यागिनः(?) स्त्रियः। अमूर्दापि न किं श्रीदः(द-) कञ्चक: स्त्रीहृदा धृतः ।।५७॥ यावन्न स्वार्थसंसिद्धिस्तावदेव सुहज्जनः । फलमारामिक: प्राप्य पश्य रम्भा निशुम्भति ।।५८॥ सुवृत्तः सुगुणः सोढा परार्थेऽनर्थमात्मनि । अन्तर्भूय पुयः स्फारघातादवति देहिनम् ।।५९।। गुणिनोऽपि गुणाधानं कदापि स्यादवस्तुतः । विनाम्लतक्रनिक्षेपान्न दुग्धं दधि जायते ॥६०॥ दृश्यते महतां पङ्क्तौ जनैस्तुच्छोऽपि कार्यतः । किं न विन्यस्यते दक्षैर्नाणकान्तः कपर्दिका ॥६१।। षण्ढेऽप्यर्थप्रदे पुंसि ध्रुवं रज्यन्ति योषितः। नपुंसकमिदं श्रीदं दृष्ट्या कज्जलमादृतम् ॥६२॥ समं भ; कुलीनस्त्री सुखदु:खे विगाहते। वृद्धिं वित्प(प)दमप्येति नदेन सह पद्मिनी ॥६३।। दुर्जनैर्दूषिता राजत्यधिकं काव्यपद्धतिः । लूकाझलकितं चूतं युज्यते पाकसम्पदा ॥६४॥ प्रथमं स एव साध्यो यद्बलतो रिपुरुपद्रवं कुरुते । दशवदननिधनमतिना रघुपतिना जलनिधिरबन्धि ।।६५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy