SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 15 उद्वेगकारिणः क्रूराः सह संवासिनामपि । एकास्यस्था: समीहन्ते दशना रसनाग्रहम् ||३८|| मलिनान्निर्मले नाशो निर्मलात् मलिने गुणः । पूर्णिकागुणकृत्तस्तर्कस्तस्याः क्षयंकरी ॥३९॥ अकर्म्मण्यपि मर्मज्ञे विफलो विक्रमश्रमः । लब्धच्छिद्राणि सिक्थानि चर्व्यन्ते न रदैरपि ||४०|| नीचोऽपि स्फूर्तिविख्यातः सेव्यः श्रेष्ठोऽपि नापरः । तोषरोषक्षमाः ख्याताः पादा वन्द्यास्तु नो शिरः ||४१ || दुष्टपुत्राचरणतः पितुः स्यान्मानमर्दना । कस्य न क्षालयत्यंड्रीन् पङ्कविच्छुरितान् पयः ॥४२॥ समारचयति प्रायो पिता पुत्रविनाशितम् । जलेन क्षाल्यते सर्वं पङ्केन मलिनीकृतम् ॥४३॥ दुष्टः प्रविष्टमात्रोऽपि विपाटयति शिष्टहृत् । सौवीरान्तर्गते क्षीरे विशीर्येत सहस्रधा ॥४४॥ परि (र) वित्तव्ययं वीक्ष्य खिद्यन्ते नीचजातिकाः । न शुष्यति यवासः किं वारि व्ययति वारिदे ॥ ४५ ॥ महान्तो ये महान्तस्ते परैश्चेदपमानिताः । अहो मुखे मिखी (सी) दानादपि दृष्टिः प्रसीदति ॥४६॥ आस्तां सचेतने रागो दुःखं निश्चेतनेऽपि तत् । खण्डनक्षारनिक्षेपपदक्षोदैः कुसुंभवत् ॥४७॥ गुणी श्लाघ्यः सरागोऽपि पर्यन्ते यदि रागमुक् । श्वेताञ्चलं हि कौसुंभोत्तरीयवसनं श्रिये ॥४८॥ विना पुंसः स्त्रिया कम्र्म्म साध्यते साधु न क्वचित् । रसना दशनाभावे किं जल्पति किमत्ति च ॥४९॥ कार्याकार्याय कस्मैचिद्वक्रता सरलैरपि । जह्नुतां वस्तुनो वेत्ति किं चक्रुः कोणनां विना ॥५०॥ वरं सा निर्गुणावस्था यस्यां कोऽपि न मत्सरः । गुणयोगेऽपि वैमुख्यं विश्वस्यापि प्रसूनवत् ॥५१॥ १. 'तपस्विनी जटामांसी जटिला लोमशा मिसी' इत्यमरः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520514
Book TitleAnusandhan 1999 00 SrNo 14
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1999
Total Pages144
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy