________________
96
किं किं नोपकृतं तेन किं न दत्तं महात्मना । प्रियं प्रसन्नवदनेन प्रथमं येन भाषितम्
11411
॥६॥
सकृदपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् । तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् उपभोगोऽपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्णे निजच्छायाम्
॥७॥
आत्मा सर्वगतो यदि प्रियतमाविश्लेषदुःखाङ्कितो नित्यश्चेद्विरहज्वरेण महता किं नीयते विक्रियाम् । प्रागासीत् यदि सक्रियोऽयमधुना [किं] निष्क्रियत्वं गतः प्रायो भाग्यविपर्यये मयि (?) मुधा सिद्धान्तसिद्धान्यपि ॥८॥
यातु क्वाऽपि तव स्वान्तं कान्ते कार्यं त्वया मम । यदेवाऽर्थक्रियाकारि तदेव परमार्थसत्
अपि चण्डान(नि)लोद्भूततरङ्गस्य महोदधेः । शक्यते प्रसरो रोद्धुं नाऽनुरक्तस्य चेतसः अस्माकं बत मण्डले प्रथमतः पत्या करः पात्यते काञ्चीकुन्तलदेशमध्यविषयान् हित्वा समिद्धश्रियः । ज्ञात्वेतीव पयोधरौ मृगदृशौ जातौ विकृष्टाननौ नो नीचोऽपि पराभवं विषहते किन्तून्नतौ तादृशौ कुतस्तस्यास्ति राज्यश्री कुतः सन्ति मृगेक्षणाः । यस्य शूरं विनीतं च मित्रं नास्ति विनिश्चितम् यदिन्दोर्जातेयं कथमपि लघुर्लक्ष्मकणिका विधातुर्दोषोऽयं न तु गुणनिधेस्तस्य किमपि । स किं पुत्रो नात्रेर्न किमु पह (?) चूडामणिरसौ न किं हन्ति ध्वान्तं जगदुपरि किं वा न वसति
Jain Education International
For Private & Personal Use Only
11811
112011
॥११॥
॥१२॥
॥१३॥
www.jainelibrary.org