________________
89
सत्सूरिमुख्याकृति-क्षेत्रपाला-ऽम्बिका शासनाधीश्वरीमूर्तिभी राजितं (८००) यत्र पार्श्वस्य पारङ्गतस्याच्छमूर्ति चलत्पुण्यमूर्ति सुरश्रेणितेज:श्रितं नागराजानुभावान्वितां कल्पवृक्षोपमां कामितार्थप्रदे मोक्षनि: श्रेणिभूतां जिनाद्यन्त-कौशल्यसूरीशमुख्यैः प्रतिष्ठां सुनीतां महत्सूरिमन्त्रेण जाग्रत्प्रतापां विलोक्याच्छपात्रं प्रमोदस्य जातं मनः प्री(९००)तिभाग मे सुलब्धो भवो मानुषोऽद्याथ हे नाथ ! विज्ञप्तिरेषा पदि(वि)त्रा महादण्डकेनाश्रिता तावकीना नवीना कृता रत्नसारान्तिषरत्न हर्षोल्लसद्धेमसन्नन्दनानां प्रसादात् स्वभावादिसत्कीर्तिनाम्ना विनेयेन सभ्यं पदं वाचकं बिभ्रता सज्जनानां प्रमोदाय भूयाः सदा (४०००) ॥१॥
इति श्रीजेसलमेरुदुर्गस्थश्रीपार्श्वनाथस्य महादण्डकमयी स्तुतिः समाप्तिमगात् ।।
॥ संवत् १७८३ ॥ श्रीसहजकीर्तिउपाध्यायरचितमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org