________________
88
स्पर्शगन्धच्युतः सङ्गवेदोज्झितो देवनाथैमि-लित्वाऽथ सर्वैः कृतश्चन्दनैर्देहदाहो जिनस्यास्थिराशिः क्षणादुज्झित:क्षीरनीराम्बुधौ पूर्वरीत्या समादाय दाढाः समां द्वीप(२००)नन्दीश्वरेऽष्टाहिकां जैनभक्त्या च निर्माय देवालयं शिश्रिये भक्तलोकस्ततः स्थापनार्हन्तमानन्द- सन्दोहहेत्वर्थमर्हत्समानं विधायार्चयामासुराजन्मकल्याणरत्नाश्मरूप्यादि- सद्रव्यजातै : पवित्रविचित्रैः स्फुरत्कान्तिभिः शान्तपापं च तं समालोक्य भव्या अनेके नमस्य(३००)न्ति बोधि लभन्ते श्रियं मोक्षलक्ष्मी सुराज्यं शरीरं निरामं यश:कीर्तिसौख्यं च भव्यानागार्जुन श्रीकुमाराद्यनेकाङ्गिवर्गा इव प्रीतिभाजः पुरे राजधान्यां तथा ग्रामजाते गृहे कोटिसङ्ख्यात्मके देशदेशान्तरे सर्वतो भ्राम्यता पार्श्वबिम्बान्यनेकानि दृष्टानि (४००) पुण्यानुभावात् समाकर्णितानि
प्रसिद्धानि च स्तम्भनादीनि संवत्सरे लोकसिद्धयङ्गभूमि(१७८३)प्रमाणे मया भाग्यतो जैनराजाज्ञया जेसलाख्ये प्रधाने च दुर्गे क्षमाधीशसन्दोहगर्वापहारे महीमण्डलाक्षोभ्यसामर्थ्य रम्ये विपक्षैरगम्ये शरण्ये महद्धर्मशर्मप्रदं मोक्षल(५००)क्ष्म्याः पदं कृत्तसर्वापदंशस्थितिक्षेमकृल्लोकशोकापहारि प्रमोदास्पदं चैत्यमुच्चं प्रभोः पार्श्वनाथस्य दृष्टं सदिष्टं क्षमाकारणं पापसन्तापनिापनेऽलंभयक्लेशनिर्नाशकं यत्र सर्वत्र बिम्बानि रम्याणि पुण्यानुयायीनि सन्त्यस्त-पापानि भूयश्चतुर्दिक्षु देवालयानां (६००) लघूनां द्विपञ्चाशदङ्गिप्रणम्यास्ति यत्राद्भुतैबिम्बचकैः सदा शोभमाना पुनर्यत्र नन्दीश्वरद्वीपवर्त्यार्हतागारसङ्ख्याकृतिर्वर्तते भव्यलोकैर्नता मुक्तिमार्गे यथा प्रोच्चमाङ्गल्यमालेव विभ्राजते तोरण श्रेणिराप्ताच्छबिम्बैर्युता माननीया महेभ्याङ्गिभिर्यत्र भाग्योद(७००)योद्रेकरूपं गुणानां गृहं मोक्षलक्ष्म्याः सुपुण्द्रोपमं तोरणं द्वारवर्ति प्रदीपोपमं स्वर्गमार्गप्रदे मन्दिरस्याग्रतः शिल्पिभिर्निर्मिताभिः प्रशस्योत्तमै रम्यपाञ्चालिकाभिर्विचित्राभिरानन्ददाय्यस्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org