________________
तत्त्वस्मरणसानन्दै - गुरूपास्तिप्रसादतः। . निरक्षरत्ववादाय देयो हन्त जलाञ्जलिः ॥३१८॥ निगोदाद्यजपर्यन्त - जन्तुभ्यो जगतोऽपि वा। . न पनीपत्यते यस्मात् तस्मादक्षरमक्षरम् ॥ न पनीपत्यते - नाऽत्यन्तं पततीत्यर्थः ॥ अत एव कथंचिद् भेदः कथंचिदभेद इति सार्वत्रिकम् ॥३१९।। यदृच्छा-वर्णसंयोग-कात्ामृतमहोदधिः । नैगमादिनयोात्मा चिरं जीयाज्जिनागमः ॥ स्वरादयोऽकारादयश्चोभये वर्णा इति नैगमः ॥१॥ स्वरादय एवेति संग्रहः ।२।। अकारादय एवेति व्यवहारः ।३।। तात्कालिका एवेति ऋजुसूत्रः ।४॥ - - वर्णः अक्षरमित्येवं ध्वनय एवेति शब्दः ।५।। भिन्नो वर्णो भिन्नमक्षरमिति समभिरूढः ।६।। वर्ण्यमान एव वर्ण इत्येवमेवंभूतः ७॥
अस्यातोऽमी अन्तर्गडवः ॥३२०॥ इति शुश्रूषिता किञ्चिद् यथावद्वर्णमातृका । हेयोपादेयविज्ञेय-रहस्याभ्याससिद्धये ॥
अन्यत्र केवलि-पूर्विभ्यः प्राग्भारस्य दुस्तरत्वात् । नयानपद्रोहो यथावत्त्वम् ।१॥
__ अथवा साध्विदमुच्यते - तीर्थे ज्ञातसुतस्य सर्वजनतानन्दैकहेतोरियं या शाखाऽप्रथि पार्श्वचन्द्रनिता तत्राऽभवन् पाठकाः । ये रामेन्दुपदा जिनेन्द्रपदवीपाथेयभाजोगत - च्छिष्यस्याऽक्षयचन्द्रवाचकमणेः पादप्रसादोऽवतात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org