________________
46
द्वितीयो यदि वाच्यत्व- हानेर्गगनपुष्पंता । तस्मादक्षर इत्याख्या नामाक्षरतयाऽऽदितः ॥ ३०५ ॥ असद्भूतं च सद्भूत - मिति तु स्थापनाक्षरम् ||३०६|| यत्तदाकारवत् पूर्वं ;
अतः समस्या न वित्राणा ॥३०७॥
द्वितीयं लिपयः समाः ॥३०८|| मानसं वाचिकं चेति द्रव्याक्षरमपि द्विधा ॥ ३०९ || चिन्तिते मानसत्वं स्यात् ; ॥३१०॥
वाचिकत्वं तु भाषिते ॥ ३११ ॥
भावाक्षरं द्विधा देश- सर्वावरणहानितः ॥ ३१२॥ द्रव्याक्षरजमाद्यं स्यात् ;
पराधारेणाऽऽत्मनिष्ठम् ॥३१३॥
परं तु प्रतिबिम्बवत् ॥ केवलज्ञानिनि परिणतम् ॥३१४॥
साक्षरत्वं निगोदानां जीवत्वादुपयोगतः । यदेषु भावचेतो हि नातीव प्रतिषिध्यते ॥ ३१५ ॥ सनिगोदीयजीवस्य जिनविज्ञातमर्मणः । अक्षरानन्तभागस्तु सर्वदैवाऽवतिष्ठति (ते) ॥ मूल्यत्वेऽनन्तजीवौघ - मूलकस्य कपर्दिका । तदेकजीवस्तन्मूल्या- ऽनन्तभागं यथाऽर्हति ॥ ३१६ ॥ सन्तोऽक्षरतया प्रायः खुंकाराद्यप्यनक्षरम् । संक्षिपन्त्यर्थयुक्तत्वाद् ज्ञानाज्ञानसमासवत् ॥३१७॥ ज्ञानं केवलिनो ब्रूयाः सविकल्पमुताऽन्यथा । आदित्वेऽवतरन्त्येता भवामि - प्रमुखाः क्रियाः ॥ अन्यत्वे दर्शनत्वं स्यात् कपिलश्चातिपूजितः । प्रमाणहानेरापत्ति-स्ततः शशविषाणता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org