SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 24 यथाक्रममिति ॥१२१।। हस्व-दीर्घ-प्लुता एक-द्वि-त्रिमात्रा यथाक्रमम् । अ इ उ ऋ ल । ए १ ऐ १ ओ १ औ १ । आ ई ऊ ऋ ल ए ऐ ओ औ। आ ३ ई ३ ऊ ३ ऋ३ ल ३ ए ३ ऐ ३ ओ ३ औ ३ इति ॥१२२।। व्यञ्जनं त्वर्द्धमानं स्यात् । क ख ग घ ङ् इत्येवं हकारान्ताः ॥१२३।। मात्राकालो निमेषकः । नेत्रस्पन्दनपरिमाण इत्यर्थः ॥१२४।। परिपूर्णमनुत्पाद्य नार्द्धशब्दः प्रवर्तते । देशप्रदेशनिर्णीति-र्न स्कन्धेन विना यतः ॥१२५।। पूर्विणोऽन्तुर्मुहूर्तेऽपि सर्वे सिद्धान्तपारगाः । रोगिणस्त्वक्षमा वक्तुं निमेषोऽन्यानपेक्षताम् ॥१२६।। एकमात्रं वदेच्चाषो द्विमानं वक्ति वायसः । त्रिमात्रं बर्हिणो ब्रूयान्नकुलः सोऽर्द्धमात्रिकम् ॥१२७।। स्मृत्वैव निनदाणूनां इसनान्मुखदारणात् । आलोकान्तं प्लुतेश्चाहु-स्त्रैधमेषु समेष्वपि ॥१२८।। दूरादामन्त्रणे प्रश्ने प्रश्नाख्याने च भर्त्सने । सम्मत्यसूयाकोपादौ यथायोगं स्वराः प्लुताः ।। देवदत्त ३ एहि । जिनदत्त ३ किं करोषि ? । सोमदत्त ३ राजानं पश्यामि । इत्यादि ॥१२९।। ऋकारं वर्जयित्वैकं सर्वस्यापि गुरोरिह । पर्यायेण प्लुतत्वं स्या-दपर्यन्तेऽपि तिष्ठतः ।। दे ३ वदत्त । देव ३ दत्त । देवद ३ त्त । देवदत्त ३ । ऋकारवर्जनात् कृ २ ष्टिः । वृ २ क्णं । इत्यादि ॥१३०।। उरः कण्ठस्ततो जिह्वा-मूलं तालु च मस्तकम् । दन्ता ओष्ठौ च नक्रं च वर्णानामष्ट भूमयः ॥ नहि दन्तेन दन्ताभ्यां वार्थ सततो (वार्थस्ततो) बहुत्वम् ।।१३१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy