SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 23 किमूष्मत्वात् किमादेशात् किं युक्तव्यवहारतः । षस्य सान्तरता मध्य-वृत्तेः किं वा विशेषणात् ॥ नादिरूहो – संत्यागात् प्रकीर्णत्वाच्च नापरः । गनान्तरत्वापातोऽस्तु तृतीये ज-णयोरपि ॥ न तुर्यो भूपयोगित्वाद् हकारस्त्वेष घोषवान् । कवर्गीयमपेक्ष्यैव तत्सिद्धेर्नास्ति पञ्चमः ।। अथ हाविवृतस्यास्य संवृतत्वमिवेति चेत् । देवानुप्रिय ! तत् सम्यगृलोरपि वितर्कय ॥११४।। नाभेरुपरि आक्रामन् विवक्षाप्रेरितो मरुत् । हृदाद्यन्यतमस्थानो प्रयत्नेन विधाय(र्य)ते । विधार्यमाणः स स्थान-मभिहन्ति ततः परम् । ध्वनिरुत्पद्यते सोऽयं वर्णस्यात्मा वितर्कितः ॥११५।। स्वरतः कालतश्चैव स्थानतोऽपि प्रयत्नतः । अनुप्रदानतश्चेति विभागस्तस्य पञ्चधा ॥११६॥ षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च सप्तैते कथिताः स्वराः ॥११७।। षड्जं मयूराः क्रूयन्ते गावस्त्वृषभनादिनः । अजादयश्च गान्धारं क्रोञ्चः क्वणति मध्यमम् ।। उडर: पञ्चमं ब्रूते हेषतेऽश्वस्तु धैवतम् । निषादं करिणो ब्रूयु-रेषा तेषामुदाहृतिः ॥११८।। गान्धारश्च निषादः स्मृतावुदात्तेऽथ धैवतोऽप्यृषभः । द्वावनुदात्ते पञ्चम-मध्यम-षड्जास्त्रयः स्वरिते ॥११९।। उच्चोच्चार उदात्त: स्या-नीचैरुच्चरितोऽपरः । स्वरितः समवृत्त्यैवो-च्चार्यमाण: स्वरो भवेत् ॥ अ० । अ० । अ० । इत्यादि ॥१२०।। द्रुता विलम्बिता मध्या विधेत्युच्चारवृत्तयः । अभ्यास उपदेशे च प्रयोगे च विनिश्रिता ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520512
Book TitleAnusandhan 1998 00 SrNo 12
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages140
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy