________________
21
आद्येकवृत्तेर्युक्तस्य हादेर्योऽनुचरो लघुः । नैषोऽपि परवन् मन्द-प्रयत्नोच्चार एव चेत् ।। षट्तांगमचक्रकर्कशलसद्वादीन्द्रमुद्राद्रुम - श्रेणीदाहदवानलः कलिमलप्रध्वंसहींकारवत् ।। तीव्रप्रयत्नोच्चारे तुपद्महदमुखादेषा गङ्गाख्या सरिदुत्थिता ॥ आदिज्ञापनान्मैवं - तव निद्रा समुपागमदुच्चकैः सुमुखि ! शीघ्रमशेमहि ते वयम् ।। एकग्रहान्मैवं - मरुद्रथः खलु वारिद! राजते, गगनमण्डलभूपतिवद्भवान् । इत्यादि ।।१०१।। समा समं समानोत्था समानेभ्यः समुत्थिताः । सन्ध्यक्षरपरेभ्यस्ता विधास्तिस्रः स्वयम्भुवाम् ॥१०२॥ 'आ'कार मुख्याः खलु पञ्च दीर्घाः समैः समानैर्जनिता भवन्ति ।। आ । ई । ऊ । ऋ । लु ॥१०३।। ए-ओ इति द्वौ विषमैर्भवेतां ॥१०४।। समान-सन्ध्य क्षर जौ तु ऐ-औ ॥१०५।। मैलः पयसि पयोवत् पयसि सलिलवच्च धान्यकणवच्च । ल(ल)दन्तेष्वेदादिषु संयुक्तव्यञ्जने क्रमशः ।। अ अ इत्यत आ इत्यादि ॥ एवं लकारान्ताः ॥५॥ अइ १, आइ २, अई ३, आई ४, इत्यतः ए। अउ १, आउ २, अऊ ३, आऊ ४, इत्यतः ओ। अए १, आए २, अऐ ३, आऐ ४, इत्यतः ऐ। अओ १, आओ २, अऔ ३, आऔ ४, इत्यतः औ ॥१०६।। द्वावकारौ य आकार इति माऽभिग्रहं विधाः । न मैत्रः संभवेच्चैत्रो चैत्रद्विगुणचेष्टया ।। अ अपेहीति वाक्यं च क्वाऽदात् कृपणसत्कृतिम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org