SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 57 तेजोलेश्याऽत्र चित्तसुखलाभलक्षणा । ततः शुक्लः - अमत्सरी कृतज्ञः सदारम्भी हितानुबन्धः, शुक्लाभिजात्यश्चैतत्प्रधानो भवति । (सुक्को सुक्काभि०)। प्रायश्छिन्नकर्मानुबन्धः तद्वेदयन् नान्यद् बघ्नाति । प्रायोग्रहणादचिन्त्यत्वात् कर्मशक्तेः कदाचिद् बध्नात्यपि (पायं छिन्नकम्माणुबंधे) ॥ भगवद्वचःप्रतिकूल-संसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपाम् (लोगसण्णं)। लोकाचारप्रवाहनदीं प्रति (पडिसोयगामी) अनुस्रोतोनिवृत्तः, सदा शुभयोगः - श्रामण्यव्यापारसङ्गतः, एष योगी व्याख्यातो भगवद्भिः (एस जोगी०)। यथागृहीतप्रतिज्ञ आदित आरभ्य सम्यक् प्रवृत्तेः । सर्वोप० निरतिचारत्वेन (सव्वोपहा०)॥ शुद्धभवस्याऽभवसाधकत्वे निदर्शनमाह - भोग० । न रूपादिविकलस्यैताः सम्यग् भवन्तीति । उक्तं च- "रूपं वयो वैचक्षण्य-सौभाग्य-माधुर्यैश्वर्याणि भोगसाधनम्" इति ।। ततस्ताः संपूर्णाः प्राप्नोति सुरूपादिकल्पाद् भवाद् भोगक्रिया इत्यर्थः ।। (तओ ता०) । अवि० कारणात् (अविगलहेउभावओ) ।। असंक्लि० (असंकिलिट्ठसुहरूवाओ) । न चान्या उक्तलक्षणभोगक्रियाभ्यः संपूर्णाः (न य अण्णा०) ॥ तत्त० संक्लेशादिभ्य अभयलोकापेक्षया भोगक्रियास्वरूपखण्डनेन (तत्तत्तखंडणेणं)। एतत् ज्ञानमित्युच्यते (एयं नाणं ति वुच्चइ)। एतस्मिन् ज्ञाने सति शुभव्यापारनिष्पत्तिः उचितप्रतिपत्तिप्रधानाऽज्ञानालोचनेन (एयम्मि सुहजोगसिद्धी०)। अत्र भावः प्रवर्तकः, प्रस्तुतप्रवृत्तौ सदन्तःकरणलक्षणो न मोहः । अत एवाऽऽहअधिकृतप्रवृत्तौ प्रायो विघ्नो न विद्यते, सदुपाययोगाद् इत्यर्थः । एतद्बीजमेवाहनिरनुबन्धाशुभकर्मभावेन । सानुबन्धाऽशुभकर्मणः सम्यक् प्रव्रज्याऽयोगात् ।। आक्षिप्ताः -स्वीकृता एवैते योगा:-प्रव्रज्याव्यापाराः भावाराधनातः तथा जन्मान्तरे बहुमानादिप्रकारेण । तत आक्षेपात् सम्यक् प्रवर्त्तते, नियमनिष्पादकत्वेन । ततो निष्पादयत्यनाकुलः सन्निष्टम् ॥ निष्कलङ्गा-निरतिचारत्वेन ॥ निष्कलङ्कार्थो मोक्षः ॥ ततः शुभानुबन्धायाः सुक्रियायाः सकाशात् स प्रव्रजितः साधयति परं-प्रधानं परार्थ-सत्यार्थम् , परार्थसाधनकुशलः, तैस्तैर्बीज-बीजस्थापनादि प्रकारादिप्रकारैः सानुबन्धं परार्थम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520511
Book TitleAnusandhan 1998 00 SrNo 11
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1998
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy