________________
58
|
महोदयोऽसौ ॥ एतदेवाऽऽह - बीजबी० । बीजं सम्यक्त्वं, बीजबीजं तदाक्षेपकं शासनप्रशंसादि, एतन्न्यासेन ॥ कान्तिवीर्यादियुक्तः परं परार्थं प्रत्यवन्ध्यशुभचेष्टः, समन्तभद्रः सर्वाकारसम्पन्नतया ॥
तच्चिकित्सासामर्थ्यवत्त्वात् (रागामयवेज्जे ० ) ॥ संवेगसिद्धिकरस्तद्धेयोगेन ॥ सत्त्वसुखहेतुतया (अचिंत० ) ॥
प्रव्रजित एवं परंपरार्थसाधकः करुणादिभावतः (से एवं परंपरत्थ० ) || सर्वोत्तमं-तीर्थकरादिजन्म चरमभवहेतुं मोक्षहेतुमित्यर्थः (सव्वुत्तमं ) | अविकलपरपरार्थनिमित्तं - अनुत्तरपुण्यसम्भाराभावेन ॥
सिध्यति सामान्येनाऽणिमाद्यैश्वर्यं प्राप्नोति ॥ बुध्यते केवली भवति ॥ मुच्यते - भवोपग्राहिकर्मणा । परिनिर्वाति-सर्वतः कर्मविगमेन ॥ इति प्रव्रज्यापरिपालनाविधिवाच्यं सूत्रम् ॥४॥
-
स(से) - प्रव्रज्याकारी एवं उक्तेन प्रकारेणाऽभिसिद्धः सन् परमब्रह्मरूपः सन्, मंग० गुणोत्कर्षयोगेन, जम्मज० निमित्ताभावेन । अनुबन्धशक्तिवर्जितोऽशुभमङ्गीकृत्य । स्वभावसंस्थितः - सांसिद्धिकधर्मवान् । ज्ञेयानन्तत्वाद् ज्ञानदर्शनयोरनन्तत्वम् ॥
अनित्थंस्थं संस्थानं यस्या अरूपिण्या: सत्तायाः सा तथा (अणित्थंत्थसंठाणा) । सर्वेच्छाव्यपगमेन (निरवेक्खा) । यतोऽसंयोगिक एष आनन्दः सुखरूपः अत एव निरपेक्षत्वादेव परो मतः (असंजोगिए एसाणंदे०) ||
अपेक्षाऽनानन्दः, औत्सुक्यदुःखत्वात् (अवेक्खा० ) || अपेक्ष्यमाणाप्त्या तन्निवृत्तौ दोषमाह - संजो० || अफलं फलमेतस्मात् संयोगात् (अफलं०) || तत्- सांयोगिकफलं (खु तं) । यतो मोहाद् विपर्ययोऽत एवाऽफले फलबुद्धिः (जमेत्तो ० ) । ततो- विपर्ययात् (तओ०) । एष मोहः (एस भाव० ) । तथाहि - "अन्नाणाओ रिवू अन्नो पाणिणं नेव विज्जइ ।
इत्तोऽसक्किरिआ तीए अणत्था विस्सओमुहा || १ || इत्यादि ॥ यदि संयोगो दुष्टः कथं सिद्धस्याऽऽकाशेन स न दुष्टः ?, इत्याशङ्क्याऽऽह - नाकाशेन संयोगोऽस्य सिद्धस्य । यतः स सिद्धः स्वरूपसंस्थित: (नागासेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org