________________
(तदारंभो ॥
आत्मानुगामुकत्वेनात्मभूतं धर्मानुष्ठानम् (एयं आयभूयं) || एतत् सम्यग् विधिना वर्त्तनम् || (भावमंगलमेयं) || अधिकृतसमाचारनिष्पत्तेः (तन्निप्फत्ती ) || अनेकयोनिभावी (पुणो पुणो ऽणुबंधी) || परमानन्दो मोक्षः (परमाणंदहेऊ ) ॥ प्रकाशका अर्हदादयः (एयधम्मपयासयाणं) |
51
पालकाः प्ररूपकाश्च यत्यादयः (एयधम्मपालयाणं, ०परूवयाणं ) ।। प्रतिपत्तारः श्राद्धादयः ( ० पवज्जगाणं ) ॥
भवतु ममैतत् कल्याणं ( होउ ममेयं) अधिकृतधर्मप्रतिपत्तिरूपम् ॥ यतीनामवपातकारी आज्ञाकारी (अववायकारी ) ॥
एतत्तदाज्ञाकारित्वम् (० च्छेयणमेयं) ||
एतस्य धर्मस्य (एतस्स जोग्गयं)
ग्रन्थ्यादिभेदेन (विसुद्धे) ॥ शुभकण्डकवृद्ध्या (विसुज्झमाण० ) ॥२॥ यथोदितगुणः संसारविरक्तः संविग्न इत्यादिना (जहोदियगुणे ) ॥ एतं यतिधर्मम् (एयं ॥
क्रियाविशेषणम् (अपरोवतावं ) || अनुपाय एष परोपतापः ॥ स्वधर्मप्रतिपत्तावपि परोपतापरूपात् (अकुसलारंभओ ) ||
मातापितृप्रकारानाह - उभयलोगसफलेत्यादि । एवं से वि बोहिज्जेत्येतदन्तम् ॥ उभयलोकसफलं जीवितं, प्रशस्यत इति शेषः ॥
समुदायकृतानि कर्माणि समुदायफलानि, प्रक्रमादत्र शुभानि ; इत्यनेन भूयोऽपि योगाक्षेपस्तथा चाह एवं सुदीर्घोऽवियोगो भवपरम्परया सर्वेषामस्माकम् (एवं सुदीहो० ) || अन्यथा - एवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः ॥
योग्यं चैतन्मनुजत्वम् (जोग्गं च एयं०) ||
स्वकार्ये धर्मलक्षणे संवरस्थगितप्राणातिपातादिच्छिद्रम् ॥ ( जुत्तं
सज्जे) ॥
Jain Education International
—
For Private & Personal Use Only
www.jainelibrary.org