________________
50
संक्लेशप्रधानत्वात् (अइदा०) । परम्परोपघातभावेन (असुहा०) । अनुकर्षकान् पातादिरक्षकान् (अंधो विय०) ॥ इतो-धर्ममित्रसेवनात् (न इओ०) ॥ . अदत्तायां तेषामाज्ञायां (आणाकंखी) ॥ दत्तायां (आणापडि०) ॥ प्रतिपन्नधर्मगुणानुकूलं (पडिवन्न०) । प्रवृत्तौ (बहुकिलेसं) ॥ अङ्गारकर्मादि (समारंभं) ॥ कस्याऽप्यसंप्रयोगे (न भावेज्ज दीणयं) ॥ अतत्त्वाध्यवसायम् (वितहा०) ॥ अनिबद्धं विकथादि ॥ दुर्ध्यानाचारादि चतुष्प्रकारमपि (अणत्थदंड) ॥ उक्तं च लौकिकेष्वपि - "पादमायान्निधिं कुर्यात् पादं वित्ताय वर्धयेत् । धर्मोपभोगयोः पादं पादं भर्त्तव्यपोषणे ॥१॥" निर्द्धनानां वाऽयम् ।। अन्यैरप्युक्तम् - "आयादर्धं नियुञ्जीत धर्मे यद्वाऽधिकं ततः । शेषेण शेषं कुर्वीत यत्नतस्तुच्छमैहिकम् ॥२॥" अयं सा(स)धनानां वा व्ययविभागः ॥ भवस्थितिकथनशीलत्वेन (जहासत्ति) ॥ प्रतिफलनिरपेक्षतया (अणुकंपापरे) ॥ निर्ममो भावेन भवस्थित्यालोचनात् ।। (निम्ममे०)॥ एवं यस्मात् तत्पालनेऽपि धर्मो जीवोपकारात् (एवं खु०) ।
यतो(5)विशेषेण सर्वे जीवाः पृथक् पृथग् वर्तन्ते, ममत्वं तु बन्ध कारणम् ॥
गृहिसमुचितेषु स्मृतिसमन्वागत आभोगः स्यात् । तद् यथा-अमुगेत्यादि (अमुगे अहं०) ॥
अणुव्रतादिधर्मानुष्ठानविराधना (तव्विराहणा) ॥ विराधनारम्भः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org