________________
[87]
अनुमानमातृका - अवचूर्णि:
१. अविना० । विना साध्यभावेन भूतं विनाभूतं, न विनाभूतं अविनाभूतं साध्यसहचरमित्यर्थः । तथाविधात् लिङ्गात्साधनाल्लिगिनः साध्यस्य विज्ञानं सम्यगर्थनिर्णयात्मकविशिष्टज्ञानमनुमानं स्यादिति सम्बन्धः । अनु लिंगग्रहणसंबंधस्मरणयोः पश्चान्मीयते परिच्छिद्यते परोक्षोऽप्यर्थोऽनेनेत्यनुमानं । अन्यत्राप्युक्तम् पञ्चलक्षणाल्लिङ्गाद् गृहीतान्नियमस्मृतेः । परोक्षे लिङ्गिनि ज्ञानमनुमानं प्रचक्षते ॥ १ ॥
अविनाभूतादित्युक्तमतोऽविनाभावमाह - लिङ्ग ।
लिंगे सति लिङ्गी भवत्येव । लिङ्गिन्यसति च लिङ्गं न भवत्येवेत्येवंरूपा व्याप्तिरविनाभावः । सा च वक्ष्यतेऽग्रे ॥ १ ॥
२. यौ० । नैयायिकमतमाश्रित्य पञ्चावयवमनुमानमित्यर्थः । अनेन चाऽन्येषां न्यूनाऽधिकावयवमपि स्यादि सूच्यते । यदुक्तम्
पञ्चावयवं यौगाः सृजन्ति मीमांसकाश्चतुरवयवम् । सांरव्यास्त्र्यवयवमार्हतबौद्धाश्च द्व्यवयवं तदिह ॥ १ ।
पञ्चावयवं नैयायिकाः, उपनयान्तं मीमांसकाः, दृष्टान्तान्तं सांख्या:, हेत्वन्तं आर्हताः, व्याप्तिपूर्वकदृष्टान्तोपनयसहितं बौद्धाश्च कुर्वत्यनुमानमित्येतदार्यार्थः । तेऽंशाः । सहार्थे तृतीया, इतिरेवमर्थे ॥ २ ॥
३. श्रित० । साध्यधर्म्मवतः पक्षेत्यपरनाम्नो धम्मिणः पर्वतादेर्गीर्वचनं प्रतिज्ञा स्यादित्यर्थं : । अस्तीह पृथ्वीधरेऽग्निः । इतिः प्रकारार्थे । शेषोदाहरणेष्वपि ज्ञेयः ||३||
४. हेतु० । हेतुत्वज्ञापकपञ्चम्यादिविभक्त्यन्तं लिङ्गवचनं हेतुरित्यर्थः । हेतुव्याप्तेरुपदर्शनं परस्मै प्रतिपादनं तस्य भूराश्रयः ||४||
५- ६. हेतौ० । यत्र धूमस्तत्राग्निः अथवा यत्र यत्र धूमस्तत्र तत्राग्निरिति व्यासि: कार्या । अत्र व्याप्तौ पाकगृहं महानसं दृष्टान्तः । व्यति यत्राग्निर्न स्यात्तत्र धूमोऽपि नेति व्याप्तिः कार्या । अत्र व्याप्तौ कूपो दृष्टान्तः । एवं व्याप्तिद्वैविध्याद् दृष्टान्तोऽपि द्विविधः स्यात् । तत्र साध्यसाधनसद्भावकृतसाध्यसाधर्म्यात्साधर्म्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org