________________
[6] हेतौ सति साध्यस्याऽवश्यम्भावित्वमन्वयव्याप्तिः । यद्वद् धूमो यत्राऽग्निस्तत्रेत्यत्र पाकगृहम् ।। ५ ॥ व्यतिरेकव्याप्तिः स्याद्धेतौ साध्येऽसति ध्रुवमभावः । यद्वद्यत्राग्नि! न तत्र धूमोऽपि कूपोऽत्र ॥ ६ ॥ धूमश्चात्रेत्युपसंहरणं हेतोश्च धम्मिणि तुरीयः । साध्यस्य तन्निगमनं स्यात्तस्मादग्निरत्रेति ।। ७ ॥ हेत्वाभासाः पञ्चाऽसिद्धोऽनैकान्तिको विरुद्धश्च । कालात्ययाऽपदिष्टः प्रकरणसम इति मताश्चतुरैः ॥ ८ ॥ सोऽसिद्धश्चिद्रूपैरनिश्चिता पक्षवर्तिता यस्य । यद्वदनित्यः शब्दश्चक्षुर्दृश्यत्वतो घटवत् ॥९॥ स विरुद्धः साध्यविपर्ययेण सह यस्य जायते व्याप्ति : यद्वच्छब्दो नित्यः कृतकत्वादन्तरिक्षमिव ॥ १० ॥ सोऽनैकान्तिकनामा पक्ष-सपक्षवदितो विपक्षं यः । व्योमवदव्ययशब्दं साधयत इव प्रमेयत्वम् ॥ ११ ॥ प्रत्यक्षादिनिराकृतसाध्यः कालात्ययापदिष्टाख्यः । जलवच्छीतलमनलं यथा पदार्थत्वतो वदतः ॥ १२ ॥ साध्यविपर्यययोः स्यात्तुल्यः प्रकरणसमो यथा नित्यः । शब्दः पक्षसपक्षाऽन्यतरत्वादन्तरिक्षमिव ॥ १३ ॥ "इत्यनुमानमातृका सुन्दरतीर्थगणिकृते लिखिता श्रीपूज्यश्रीसूरसुन्दरसूरिविनेयपं समयमाणिक्यगणिशिष्येण ॥
३. पण्डितैः । (एताः टिप्पणयः प्रत्यन्तरे ।) ४. नित्यत्वे साध्ये नित्यत्वतां सपक्षता । नित्यत्ववान् सपक्षः । अनित्यत्वे हि साध्ये
अनित्यत्ववतां सपक्षता । अनित्यत्ववान् सपक्षः । अनित्यत्वतां विपक्षता । अनित्यत्ववान् विपक्षः। नित्यत्ववतां विपक्षता । नित्यत्ववान् । विपक्षः। (प्रत्यन्तरे टि.) इत्यनुमानमातृका । पं. श्री ६ ज्ञानविमल | जालोरनगरे ॥ श्रीकल्याणमस्तु ॥ ( इति प्रत्यन्तरे ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org