________________
[8] दृष्टान्तः (१) । साध्यसाधनाऽभावजनितवैधाद्वैधर्म्यदृष्टान्तः । (२) इति ।।५।।
७. धूम० । धर्मिणि उपसंहरणं कोऽर्थ : ? दृष्टान्तर्मिणि विसृ(श्रु)तस्य साधनस्य साध्यधर्मिण्युपनयनं तद्धर्मिण्युपसंहरणम् ॥७॥
८. हे० । हेतुलक्षणरहिता हेतुवदाभासमानाः । नामकथनव्यतिक्रमः पाठानुकुल्यात् । ॥८॥
९-१० सो० । अनिश्चिता संदेहगोचरीकृता विप्रतिपत्तिविषयीकृता वा ॥९॥१०॥
११. सोऽने० । एकस्मिन्मते साध्यधर्मे नियत एकान्तिकस्तद्विपरीतः अनैकान्तिकः । व्यभिचारीत्यपि । नित्यः शब्दः प्रमेयत्वात् व्योमवदिति प्रयोगः ॥११॥
१२. प्रत्य० । आदिशब्दादनुमानागमादिग्रहः । प्रमाणाऽनुपहतपक्षोपन्यासाऽनंतरं हेतूपन्यासस्य समयः कालस्तदत्ययेऽतिक्रमे सति अपदिष्टः कालात्ययापदिष्टः कालातीत-समयातीत-बाधितविषया इत्यादिनामानि । अनलः शीतलः पदार्थत्वात् जलवदिति प्रयोगः प्रत्यक्षबाधोदाहरणम् । अनुमानबाधो यथापरमाणवोऽनित्या मूर्तत्वाद् घटवदित्यत्र । परमाणवोऽनित्या अकार्यत्वादाकाशवदित्यनेन बाध्यते । नन्वस्यानुमानस्य को विशेषो येनेदं तद्बाधकमिति चेत् -
यस्मादणुतरो नास्ति सक्रियो नित्य एव वा । नित्यत्वे सत्यजन्यो यः परमाणुः स लक्षितः ॥ १ ॥
इत्यागमबद्धमूलत्वेन बलीयस्त्वम् । ततो बलवता दुर्बलं बाध्यत इति सार्वत्रिकन्यायादेतद् बाधकं स्यादिति ॥ १२ ॥
१३. साध्य० । पक्षः शब्दः सपक्षो व्योमादि, तयोरन्यतरत्वं एकतरत्वम् । पक्षत्वं सपक्षत्वं चेति यावत् । अयं चैक एव हेतुर्नित्यत्व इव । अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् । घटवदिति । अनित्यत्वेऽपि त्रिरूपतया वर्तमानः प्रकरणसमः स्यात् । तथा नित्यः शब्दोऽनित्य धर्मरहितत्वादित्यादयोऽपि ज्ञेयाः । सत्प्रतिपक्ष इत्यप्यभिधा एतस्य ॥१३॥
'इत्यनुमान मातृकावचूर्णिः संपूर्णा । लिखिता राजपुर महानगरे ।। १. इत्यनुमानमातृकाऽवचूरिः ॥ (इति प्रत्यन्तरे ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org