________________
९२
(१०) बावीस ( द्वाविंशति ) परीस (ष) हाः । कतमा : ? । क्षुत्परीषहः । पिपासा परीस (ष) हः । सी (शी) तपरीषहः । उष्णपरीषहः । मस (श) कपरीषहः । नग्नपरीषहः । रति अरतिपरीषहः । स्त्रीपरीषहः । चर्यापरीषहः । निद्रा (निषद्या ? ) परीषहः । सज्या ( शय्या) - परीषहः । आक्रोशपरीषहः । वधबन्धपरीषहः । अयाचनापरीषहः । अलाभपरीषहः । रोगपरी
हः । तृणस्पर्श [ परीषहः ] । मलपरीषहः । अस्नानपरीषह: (?) । सत्कारपरीषहः । पुरस्कारपरीषहः । (सत्कारपुरस्कार परीषह : ?) प्रज्ञा [ परीषहः ] । अज्ञानपरीषहः । सम्यक्त्वपरीषह श्चेति । एते द्वाविंशतिपरीषहाः ॥
इत्यर्हत्प्रवचने प्रथमोऽध्यायः समाप्तः ॥ ॥
द्वितीयोऽध्यायः
नव पदार्थाः। [ सप्त तत्त्वानि ] । चतुर्विधो न्यासः । सप्त नया: । चत्वारि प्रमाणानि । षट् (ड्) द्रव्याणि । पञ्चास्तिकायाः । द्विविधो गुणः । पञ्चज्ञानानि । त्रीणि अज्ञानानि । चत्वारि दर्शनानि । द्वादशाऽङ्गानि । चतुर्दश पूर्व्वाणि । द्विविधं तपः । द्वादश प्रायश्चितानि । चतुर्विधो विनयः। दश वैयावृत्ता(त्त्या) नि । पञ्चविधो (धः) स्वाध्यायः । चत्वारि ध्यानानि । द्विविधो व्युत्सर्गः ॥ इति अर्हत्प्रवचने द्वितीयं सूत्रम् ॥
अतो विवरः । (१) नव पदार्था ( : ) । कतमा: ? । जीवाजीवपुण्यपापाश्रवसंवरनिर्ज्जराबन्धमोक्षाश्चेति । एते नव पदार्था : ॥
(२) सप्त तत्त्वानि । कतमानि ? । जीवाजीवाश्रवसंवर निर्ज्जराबन्धमोक्ष (क्षा ) - श्चेति । एतानि सप्त तत्वानि ॥
(३) चतुर्विधो न्यासः । [ कतमः ? |] नामस्थापनाद्द्रव्यभावतश्चेति । स एष चतुर्विधो न्यासः ॥
(४) सप्त नया: । कतमा: ? । नैगमसङ्ग्रहव्यवहार ऋजुसूत्रशब्दसममिख्दैवम्भूता नयाः । नैगमो द्विभेदः देशग्राही । सकलग्राही । शब्दस्तु द्विभेदः । समभिरूढः । समभिरूढः । एवंभूतः । इत्येष सप्तनया (य) भेदः ॥ (?)
(५) चत्वारि प्रा( प्र )माणानि । कतमानि ? । प्रत्यक्षम् । अनुमानम् । उपमानम् । आप्तवचनम् । एतानि चत्वारि प्रमाणानि । प्राधान्येन द्वे एव प्रमाणे । प्रत्यक्षं परोक्षं चेति ॥ (६) षट् (ड्) द्रव्याणि । कतमानि ? । जीवः । पुद्गलः । धर्म्मः । अधर्म्मः । आकास (श:) काल (:) । इति षट् (ड्) द्रव्याणि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org