SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ९३ (७) पञ्चाऽस्तिकायाः । कतमाः? । जीवकाय (जीवास्तिकायः) । पुद्गल(लास्ति)काय(:) । धर्माधर्मकाय (धर्मास्तिकायः । अधर्मास्तिकायः) । आकाश(शास्ति)कायमि(य इ)ति ।। चतुर्भिः प्रमाणैः जीवति जीविष्यति जीवितपूर्वो वा जीवः । पूरणात् पुद्गलः । पूरयति गालयतीति वा पुद्गलः। धर्मास्तिकायो गतिलक्षणः।अधर्मास्तिकाय:स्थितिलक्षणः। आकाशास्तिकायश्चावगाहनालक्षणः । एते पञ्चाऽस्तिकायाः ॥ (८) द्विविधो गुणः ।कतमः? । जीवगुणः अजीवगुणश्चेति । एवं द्विविधो गुणः॥ (९) पञ्च ज्ञानानि । कतमानि ? । मतिज्ञानम् । श्रुतिज्ञानम् । अवधिज्ञानम् । मनःपर्यवज्ञानम् । केवलज्ञानं चेति । एतानि पञ्च ज्ञानानि भवन्ति ।। (१०) त्रीणि अज्ञानानि । [कतमानि ? ।] मत्यज्ञानम् । श्रुताज्ञानम् । विभङ्गाज्ञानं चेति । एतानि त्रीणि अज्ञानानि । (११) चत्वारि दर्शनानि। कतमानि? ।चक्षुद (द) र्शनम्।अचक्षुद (द) र्शनम्। अवधिदर्शनम् । केवलदर्शनमिति । एतानि चत्वारि दर्शनानि ।। (१२) द्वादशऽङ्गानि । कतमानि? आचारः। सूत्रकु(कृ)तः।स्थानम् ।समवायः। व्याख्याप्रज्ञप्तिः । ज्ञातृकथा। उपासकाध्ययनम् । अन्तकु(कृ) द्दशा । अनुत्तरो(रौ)पया(पा)दिकंदसं(कदशा:) । प्रश्नव्याकरणम् । विपाकसूत्रम् । दृष्टिवादं च । एतानि द्वादशाऽङ्गानि॥ - (१३) चतुर्दश पूर्वाणि । कतमानि ? । उत्पादपूर्वम् । अग्रायणीयम् । वीया(ा)नुप्रवादम् । नास्तिप्रवादम् । ज्ञानप्रवादम् । सत्यप्रवादम् । आत्माप्रवादम् । कर्मप्रवादम्।प्रत्याख्याननामधेयम् । विद्यानुप्रवादम्।कल्याणनामधेयम्।प्र(प्रा)णावायम्। क्रियाविसा(शा)लम् । लोकबिन्दुसारं चेति । एतानि चतुर्दश पूर्वाणि॥ (१४) द्विविधं तपः । कतमा : (मम्) ? । बाह्या(ह्ययम)भ्यन्तरं चेति । बाह्यं तपः षड्विधम् । अनस(श)नम् । अवमौदर्यम् । वृत्तिपरिसंख्यानम् । रसपरित्यागः । कायकिलेस -(क्लेश:)।विविक्तस(श)य्यासनमिति ।।अभ्यन्तरंषट्(ड्)विधम् ।प्रायश्चित्तम् ।विनयो (यः) । वैयावृत्तम् । स्वाध्यायो (यः) । ध्यानम् । व्युत्सर्गश्चेति । एतद् द्विविधं तपः ॥ (१५) द्वादश प्रायश्चित्तानि । कतमानि ? । अर्द्धमासिकसमुद्धातम् । मासिकसमुद्घातम् । द्विमासिकसमुद्घातम् । त्रमासिकसमुद्घातम् । चतुर्मासिक समुद्घातम् । पञ्चमासिकसमुद्धातम् । षण्मासिकसमुद्घातम् । एक आलोचनाहः। एक उपस्थापनार्हः । एकः प्रतिक्रमणार्हः। एकः कृपायोग्यार्हः । एकः कायोत्सर्गार्हः । एतानि द्वादश प्रायश्चित्तानि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy