________________
९४
(१६) चतुर्विधो विनयः । कतमः? ।दर्शनविनयः । ज्ञानविनयः। चारित्रविनयः। औपचारिकविनयश्चेति चतुर्विधो विनयः ॥
(१७) दश वैयावृत्ता(त्त्था )नि । कतमानि ? । आचार्यवैयावृत्त्यम् । उपाध्यायवैयावृत्त्यम् । तपस्विवैयावृत्त्यम् । सिष्य(शैक्ष)वैयावृत्त्यम् । गणवैयावृत्यम् । कुलवैयावृत्त्यम्। [सङ्घवैयावृत्त्यम्।] सा(शा)स्त्र(साधु?)वैयावृत्त्यम् ।ग्लानवैयावृत्त्यम्। मनोज्ञवैयावृत्त्यम्। एतानि दस(श)वैयावृत्ता(त्त्या)नि॥
(१८) पञ्चविधःस्वाध्यायः।क्तमानि (क्तमः)?।वाचन(ना)।प्रच्छन(ना)। अनुप्रेक्षा । आम्नायः । धर्मोपदेशश्चेति । एषः(ष)पञ्चविधः स्वाध्यायः॥
(१९) चत्वारि ध्यानानि । कतमानि ? । आतरौद्रध्यान(धर्म)शुक्लानि । आत(त्त) नाम राज्योपभोगसं (?) शयनवाहन वस्त्राभरणेषुइच्छा भिलाषमतिपूर्वकम्। तदा नाम । रौद्रं नाम छेदनदहनताडनबन्धनमरणानुकम्पारहितरागकरणं तत् रौद्रं ध्यानं नाम। सूत्रार्थमार्गणमहाव्रतभावनापञ्चेन्द्रियोपशमनबन्धमोक्षगमनहेतुचिन्तापूर्वकंधर्मध्यानं नाम । शुक्लध्यानं नाम इन्द्रियविषयप्रवृतमनोवाका(क्का)य सङ्कल्पनिकृ(वृ)ता(त्या)त्मकं मोक्षकारणं शुक्लध्यानमिति । एतदेवाह
राज्योपभोगशयनासनवाहनेषु स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहात् ध्यानं तदातमिति तत्प्रवदन्ति सन्तः ॥ संछेदनैर्दहनताडनमारणैश्च बन्धप्रहारदर्शनैश्च विकतनैश्च । यस्येह रागमुपजा(या)ति न चानुकम्पा ध्यानं [च] रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः ॥ सूत्रार्थमार्गणमहाव्रतभावनानि पञ्चेन्द्रियोपशमनानि दया च भूते । बन्धप्रमोक्षगमना गतिहेतुचिन्ता ध्यानं सुधर्ममिति तत्प्रवदन्ति तज्ज्ञा : ।। यस्येन्द्रियाणि विषयेषु निवतितानि सङ्कल्पकल्पमविकल्पविकारदोषैः । योगैस्त्रिभिस्त्वहरहनिभृतान्तरात्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org