________________
९५
ध्यानं तु शुक्लमिति तत्प्रवदन्ति तज्ज्ञा : ।। आर्ते तिर्यग्गतिस्तथा (2) गतिरधो ध्याने तु रौद्रे सदा धर्मे देवगतिः शुभं च हि फलं शुक्ले च जन्मक्षयं (यः) । तस्माद् व्याधिरुजान्तके हितकरे संसार निस्तारके शुक्लध्यानवरे रजः प्रशमने कुर्व्वन्तु यत्नं बुधाः ! ॥ एतानि चत्वारि ध्यानानि ॥
(२०) द्विविधो व्युत्सर्गः । कतमः ? | बाह्योऽन्तरश्चेति । बाह्यो नाम सर्व्वारम्भपरित्यागः । अभ्यन्तरो रागद्वेषमोहादीनां परित्यागः । इत्येवं द्विविधो व्युत्सर्गः । इत्यर्हत्प्रवचने द्वितीयोऽध्यायः समाप्तः ।।
तृतीयोऽध्यायः
त्रिविधः कालः । षट्(ड्) विध: कालसमय: । त्रिविधोलोकः । अर्द्धतृतीयद्वीपसमुद्राः । पञ्चदेश क्षेत्राणि । चतुस्त्रिंशद्वर्षधरपर्वताः । पञ्चदश कर्म्मभूमयः । त्रिंशद् भोगभूमयः । सप्त धर्म्मभूमयः । सप्तैव च महानरका: । चतुर्द्दश कुलकराः । चतुर्विंशतितीर्थकराः । नव बलदेवाः । नव वासुदेवाः । नव प्रतिवासुदेवाः । एकादश रुद्राः । द्वादश चक्रवर्त्तिनः । नव निधयः । चतुर्दश रत्नानि । द्विविध (:) पुद्गलः ॥
इति अर्हत्प्रवचने तृतीयं सूत्रम् ॥
(१) त्रिविधः काल: । कतमः ? । अतीतोऽनागतः वर्तमानश्चेति त्रिविधो (धः)
कालः ॥
(२) षट्( ड्) विधः कालसमयः । कातमः ? | सुषमसुषमः । सुषमः । सुषमदुःखमा(मः) । दुःखम: (म) सुखमः । अतिदुःखमः । इत्येष षड्विधः कालसंमयः ॥ (३) त्रिविधो लोकः । कातमः ? उद्धर्वलोकः । अधोलोकः । तिर्यग्लोक : । इत्येष त्रिविधो लोकः ॥
(४) अर्द्धतृतीया द्वीपसमुद्राः । कतमा: ? । जम्बूदीपः लवणसमुद्रः । धातु (त) कीखण्डः । कालोदधिसमुद्रः । पुष्करार्द्ध चेत्येते अर्द्धतृतीया द्वीपसमुद्राः ॥ (५) पञ्चदश क्षेत्राणि । कतमानि ? । पञ्च भरतानि । पञ्च विदेहानि । पञ्च ऐरावतानि । एतानि पञ्चदश क्षेत्राणि ॥
(६) विंशति ( : ) वर्षाः । कतमा: ? । पञ्च हैमवताः । पञ्च हरिवंसाः (वर्षाः) । पञ्च रम्यकाः । पञ्च हैरण्यवताः । इत्येते विंशतिवर्षाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org