SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ (७) चतुस्त्रिंशद्वर्षधरपर्वताः । कतमा :।? पञ्च हिमवन्तः । पञ्च महाहिमवन्तः। पञ्च निषध(धा): । पञ्च नीला(:) । पञ्च रुक्मिणः । पञ्च शिखरिणः । चत्वार इषुकारपद्धताः॥ (८) पञ्चदश कर्मभूमयः । कतमा : ?। पञ्च भारतिकाः । पञ्चे ऐरावतिकाः । पञ्च महावैदि(देहि)काः । पञ्चोत्तरकौरविकाः । पञ्च देवकौरविकाः । [अत्रैवं पाठः सम्भाव्यते- " पञ्चदश कर्मभूमयः । कतमाः? । पञ्च भारतिकाः। पञ्च ऐरावतिकाः । पञ्च महावैदेहिका : । एताः पञ्चदश कर्मभूमयः ।। त्रिशद भोगभूमयः । कतमाः? पञ्च हैमवताः । पञ्च हारिवर्षाः । पञ्च राम्यकाः। पञ्च हैरण्यवताः । पञ्च देवकौरविकाः । पञ्चोत्तरकौरविकाः ।] एतास्तुंस(स्त्रिंश)द् भोगभूमयः॥ (९) सप्त धर्मभूमयः । कतमाः? । रत्नप्रभा । स(शर्कराप्रभा । वालुकप्रभा। पङ्कप्रभा । धूमप्रभा । तमप्रभा । महातमप्रभा । एता(:) सप्त धर्मभूमयः॥ (१०) सप्त महानरकाः । कतमाः? । कालः । महाकालः । रौरवः । महारौरवः। असिपत्रवनम् । कूटशाल्मलिः । कुम्भीपाकश्चेति । एते सप्त महानरकाः ॥ (११) चतुर्दश कुलकराः । कतमाः ? सनुमतिः(?) प्रश्रुतिः । क्षेमंकरः। क्षेमन्धरः। सीमङ्करः । सीमन्धरः । विमलवाहनः । चक्षुष्मान् । यशस्वी । अभिचन्द्रः। चन्द्राभः । प्रसेनजित् । मरुदेवः । नाभिश्चेति । एते चतुर्दश कुलकराः ॥ (१२) चतुर्विंशति तीर्थकराः । कतमाः ? । ऋषभः । अजितः । सम्भवः । अभिनन्दः । सुमतिः । पद्मप्रभः । सुपार्श्वः । चन्द्रप्रभः । पुष्पदन्तः । शीतलः । श्रेयांसः । वासुपूज्यः । विमलः । अनन्तः। धर्मः । शान्तिः । कुन्थुः । अरु: । मल्लि: । मुनिसुव्रतः। नमिः । अरिष्ठनेमिः । पार्श्वः । वर्धमानश्चेति । एते चतुर्विंशतितीर्थकराः ।। (१३) नव बलदेवाः । कतमाः? । विजयः । अचलः । सुधर्माः । सुदर्शनः । नन्दकः । नन्दिमित्र: । रामः । पद्मश्चेति । एते नव बलदेवाः ।। (१४) नव वासुदेवाः । कतमा:?। त्रिपिष्ठः । द्विपिष्ठः । स्वयम्भूः । पुरुषोत्तमः। पुरुषसिंहः । पुरुषपुण्डरीकः । दत्तः । नारायणः । विष्णुश्चेति । एते नव वासुदेवाः ॥ . (१५) नव प्रतिवासुदेवाः । कतमाः ? । अश्वग्रीवः । तारकः । मेस्कः । निसु(शु)म्भः । बलिः । प्रह्लादः । मधुकोटकः । रामणः । जरासिन्धुश्चेति । एते नव प्रतिवासुदेवाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy