SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९७ (१६) एकादश रुद्राः । कतमाः? । भीमावलिः । जितशत्रुः । रुद्रः। विश्वानलः। सुप्रतिष्ठः । अचलः । पुण्डरीकः । अजितधरः । अजितनाभिः । प्रढालः। सातकिसुतश्चेति। एते एकादस(श) रुद्राः ॥ (१७) द्वादश चक्रवर्तिनः । कतमाः? भरतः । सगरः । मघवा । सनंतकुमारः। शान्तिः । कुन्थुः । अरु: । सुभूमः । पद्मः । हरिषेणविजयः । ब्रह्मदत्तश्चेति । एते द्वादशः। चक्रवर्तिनः ॥ (१८) नव निधय (:)।कतमाः? । नैसर्पः । माणवकः । पिङ्गलः । पाण्डुकः। कालः । महाकालः । पद्मः । शङ्खः । सर्वरत्नश्चेति । एते नव निधयः । (१९) चतुर्दश रत्नानि । कतमानि ? चक्रं । छत्रं । चर्म । मणिः । काकणिः। खड्ग । दण्डः। हयः । गजः । सेनापतिः। उपरोहित:(पुरोहितः) । ग्र(ग)हपतिः। स्थपतिः। कन्याश्चे(चे)ति । एवं चतुर्दश रत्नानि ।। (२०) द्विविधः पुद्गलः।स्कन्धः । परिमाण(परमाणु) श्चेत्येष द्विविध(:) पुद्गलः।। इत्यर्हत्प्रवचने तृतीयोऽध्यायः समाप्तः । चतुर्थोऽध्यायः॥ देवाश्चतुष्णिकायाः। भवनवासिनो दशविधाः।व्यन्तरा (अ)ष्टविधाः। ज्योतिष्काः पञ्चविधाः । वैमानिका द्विविधाः । कल्पस्थितिका अहमिन्द्राश्चेतिः। [पञ्चानुत्तराः । पञ्च जीवगतयः । षट् पुद्गलगतयः। अष्टविधश्चात्मसद्भावः । पञ्चविधं शरीरम् । अष्टगुणा रिद्धिः पञ्चेन्द्रियाणि । षट् लेस्या:(श्याः) । द्विविधं शीलम् । इत्यर्हत्प्रवचने चतुर्थं सूत्रं समाप्तम् ॥॥ (१) देवाश्चतुर्निकायाः।कतमाः? । भवनवासिनो(न:)।व्यन्तराः।ज्योतिष्काः। वैमानिकाः । एते चतुर्निकायाः ॥ (२) भवनवासिनो दशविधाः । कतमाः ? असुरकुमाराः । नागकुमाराः ।। सुवर्णकुमाराः । अग्निकुमाराः । वायुकुमाराः । स्तनितकुमाराः । विद्युत्कुमाराः । उदधिकुमाराः । द्वीपकुमाराः । दिक्षु(क्) कुमाराः । एते भवनवासिनो दशविधाः ।। (३) व्यन्तरा [अष्टविधाः । कतमाः? । किनरः । किम्पुरुषः । महोरगः।। गन्धर्वः । यक्षः । राक्षसः । भूतः । पिसा(शा)चाश्चेति । एते व्यन्तरा (अ)ष्टविधा :॥ (४) ज्योतिष्काः पञ्चविधाः । कतमाः ? सूर्य(1)चन्द्रमसौ ग्रहनक्षत्र प्रकीर्णकताराकाश्चेति । एते ज्योतिष्काः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy