________________
(५) वैमानिका द्विविधाः । कल्पस्थितिका अहि(ह)मिन्द्राश्वेति । कल्पस्थति (काः) षोडस(श)विधा । कापिष्ठः । सु(शु)क्रः । महासु(शु)क्र:स(श)तारः । सहस्त्रारः। आणतः । प्राणतः । आरणः । अच्युतक श्वेति । एते कल्पस्थितिकाः ॥ अहमिन्द्रा नव (?दश)विधा । कतमाः? प्रथमा(म)प्रथमग्रैवेयकविमानवासिनः। प्रथममध्यमग्रैवेयक विमान वासिनः। प्रथमउपरिमौवेयकविमानवासिनः । मध्यमप्रथमग्रैवेयकविमानवासिनः। मध्यममध्यमवेयकविमानवासिनः।मध्यमउपरिमग्रैवेयकविमानवासिनः।उपरिम प्रथमग्रैवेयकविमानवासिनः । उपरिममध्यमग्रैवेयकविमानवासिनः । उपरिमउपरिमग्रैवेयक विमानवासिनः । अनुत्तरविमानवासिनश्चेति । एते अहमिन्द्रा । नव (दश?) विधाः ।।
नवानुदिसगाच्चय(?) कथ्यते ।"लच्छी अलच्छी मालिनी वैरे वैरोचने च बोधव्वा । सोमो य सोमरूए अक्के फलिहे य आइच्चो ॥" एते नवानुदिशा : ।। (?)
(६) पञ्चाऽनुत्तराः। कतमाः? विजयः।वे(वै)जयन्तः। जयन्तः। अपराजितः। सर्वार्थसिद्धश्चेति । एते पञ्चानुत्तराः ॥
(७) पञ्च जीवगतयः । कतमाः? । नरकगतिः । तिर्य(ग)गतिः । मनुष्यगतिः। देवगतिः श्चोति । चतु(त) । मोक्षगति गतयः संसारभ्रमणहेतुभूताः । पञ्चमी गति(:) कर्मक्षयजनिता अष्टगुणप्राप्तिहेतुः । एताः पञ्च गतयः ।।
(८) षट्पुद्गलगतयः।कतमाः?। पूर्वदक्षिणपश्चिमउत्तरऊर्ध्वअधस्तिर्य(ग)गतिः । एता(:) पुद्गलगतयः ।।
(९) अष्टविध आत्मसद्भावः । अस्त्यात्मा नित्यः । अनित्य : । अमूर्तः । सरीरः (शरीरी?) अख्मः।अकर्ता । गुणवान्। स(श)रीरगतः।संहरण विसथण(विस्तरण) धर्म(:) प्रदीपवत् । अनादिबन्धान् बद्धः।तद्विप्रयोगो मोक्षः। इत्येवं अष्टविधो(ध:) आत्मसद्भावः।।
(१०) पञ्चविधं स(श)रीरम् । कतमाः (मं) ? । औदारिकं । वैक्रियं । आहारका तैजसं । कार्मणं चेत्येवं पञ्चविधं स(श)रीरम् ।।
(११) अष्टगुणा रिद्धिः। कतमाः (मा)? । अणिमा । महिमा । लघिमा ।प्राप्ति। प्रागम्यः (प्राकाम्यं) । इसि(ईशित्वं । वसि(शि)त्वं ? कामरूपित्वं । सर्ववसि(शि) त्वमिति । एषा अष्टगुणा रिद्धिः ॥
(१२) पञ्चेन्द्रियाणि । कतमानि ? । चक्षुरिन्द्रियं । श्रोत्रेन्द्रियं । घ्राणेन्द्रियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org