SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (९१) पर्व्वे (र्वणि पौषधोपवासिकम् । अतिथिसंविभागिकम् । पश्चिमसंल्लेखनामरणान्तिकम् । एतानि चत्वारि शिक्षाव्रतानि । तत्र शीलव्रतानि कथितानि श्रावकधर्म्मश्चेति । (६) तिश्री गुप्तयः । कतमा : ? । कायगुप्ति । वचोगुप्ति । मनोगुप्तिरिति । तत्र कायगुप्तिर्नाम स (श) यनासनादाननिक्षेपणस्थानचंक्रमणाकुञ्चनप्रसारणादीनां कायचेष्टानियमः। स एषा कायगुप्तिर्नाम । वाचनप्रच्छनप्रश्नव्याकरणादिषु वाग्गुप्तिर्नाम । मनोगुप्तिर्नाम सर्व्वसावद्यसङ्कल्पनिरोधः, तथा अकार्यका (क) रणचिन्तनीयस्य निरोधः । स मनोगुप्तिः । एता: तिश्रो गुप्तयः I (७) पञ्च समितयः । कतमा: ? । ईर्या - भाषा - एषणा- आदान निक्षेपणोत्सर्गाश्चेति । तत्र ईर्यासिमितिर्नाम 'इ (ई) रगतै' धात्वर्थे । ईर्ष्या नाम रथस (श) कटयानवाहनाक्रान्तेषु मार्गेषु प्राशुकविविक्तेषु सूर्यरश्मिप्रकाशितेषु युगम (युग) मात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यमिति । एषा ईर्यासमितिः ॥ भाषासमितिर्नाम हितमितअसन्दिग्धनिरवद्यार्थनियमभाषिणी वाणी भाषितव्या । एषा भाषासमितिर्नाम ॥ पाणिपात्रे भिक्षागोचरगतेन अननुमताऽकृत अकारित असङ्कल्पितनवकोरिपरिशुद्धं दशदोषविवज्जितं चतुर्दशमलविशुद्धं निर्द्धमं भोक्तव्यमिति सा एषणासमितिर्नाम आदाननिक्षेपणा समितिर्नाम अङ्गोपाङ्गप्रत्यङ्गाकुञ्चनप्रशा(सा) रणादीनां निषद्यास (श) य्यासनादीनां अवस्यं (श्यं) निरीक्ष( क्ष्य) पिच्छकेन प्रमार्य (र्ज ) नादाननिक्षेप: (पादि ?) कर्तव्यमिति । सा एषणा (एषा ) - ऽऽदाननिक्षेपणासमितिः । उत्सर्गसमितिर्नाम स्थाण्डिल्ये स्थावरजङ्गमजन्तुविवज्जिते निरीक्ष(क्ष्य) प्रमृज्य वातमूत्रपुरीषोत्सर्गश्लेष्मादीनां ( वातमूत्रपुरीषश्लेष्मादीनां उत्सर्ग :) कर्तव्यः । सा उत्सर्गसमितिनार्म । एता (:) पञ्च समितयः ८. दश धर्मानुभावना: । कतमा : ? । उत्तमक्षमामार्द्दवार्ज्जवसत्यसौ (शौ) चसंज (य) मस्त (त) पस्त्यागाकिञ्चि (ञ्च) न्यब्रह्मचर्यमिति । उत्तमक्षमा नाम सर्व्वसत्त्वसहिष्णुत्वम् । मार्दवं नाम मृदुत्वम् । आर्जवं नाम ऋजुत्वम् । सत्यं नाम अवञ्चकत्वम् सौ(शौ) चं नाम निर्लोभत्वम् । सं (य) मो नाम द्विविध:- इन्द्रियसंज (य) मः । प्राणसंज(य) मश्चेति । तपो नाम इच्छानिरोधः । त्यागो नाम निर्ममत्वम् । आकिञ्चन्यं नाम अपरिग्रहत्वम्। ब्रह्मचर्यं नाम अमैथुनत्वम् । एता दश धर्म्मानुभावना ( : ) । - I (९) द्वादशानुप्रेक्षा ( : ) । कतमा: ? | अध्रुव ( : ) । अस (श) रण ( : ) । अनित्यः । संसार : । एष: (एकः) । अन्यः । अशुचि ( : ) । आश्रवः । संवरः । निर्ज्जराः (रा) । लोकः । बौधि:(धेः) दुर्लभत्वम् । धर्म्मस्वख्यिात (:) । एत (ता) द्वादशानुप्रेक्षा भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy