________________
(९०)
अज्ञातकर्तृकं
श्री अर्हत्प्रवचनसूत्रम् ॥ अथातो अर्हत्प्रवचनं व्याख्यास्यामः । तद् यथा ॥ तत्रेमे षड् जीवनिकायाः । पञ्च महाव्रतानि । पञ्चाणुव्रतानि । त्रीणि गुणव्रतानि । चत्वारि शिक्षाव्रतानि । तिश्रो गुप्तयः पञ्च समितयः । दश धर्मानुभावनाः । द्वादशानुप्रेक्षाः । द्वाविंशति परीषहाः ।। इत्यर्हत्प्रवचने प्रथमोऽध्यायः समाप्तः ॥
___ अथातोऽर्हत्प्रवचनसङ्ग्रहं व्याख्यास्यामः । तद्यथा- अथेत्ययं निपात: पूर्वप्रकृत्यपेक्षः । अथ (त) इति पञ्चमीनिर्देशः ।
अर्हन्तो नाम भगवन्तो लोकोत्तमाः सर्वज्ञाः सर्व्वलोकदर्शिनः । तैरुपदिष्टं प्रवचनं गणधरदेवै रचितम् । तद् व्याख्यास्यामः कथयिष्यामः प्रकाशयिष्यामः इत्यर्थ: (१) तथैव षट(ड्) जीवनिकायाः । कतमाः ? । पृथ्वीकायिकाः। आप:कयिकाः । तेज:कायिकाः । वायुकायिकाः । वनस्पतिकायिकाः । त्रसकायिकाश्चेति । एते षट(ड्)जीवनिकाया न हिंस(सि)तव्या व्रतपरिरक्षणार्थम् । (२) पञ्च महाव्रतानि । कतमानि ? । यावज्जीवं प्राणातिपाताद्विरतिः । यावज्जीवं मृषावादाद्विरतिः । यावज्जीवं अदत्तादानाद्विरति : । यावज्जीवं मैथुनाद्विरतिः । यावज्जीवं परिग्रहाद्विरतिः । इत्येतानि रात्रि भोजनाद्विरतिः षष्ठानि भवन्ति ।
(३) पञ्चाऽणुव्रतानि । कतमानि ? । यावज्जीवं स्थूलकृतप्राणातिपाताद्विरतिः । यावज्जीवं स्थूलकृतमृषावादाद्विरतिः । यावज्जीवं स्थूलकृतअदत्तादानाद्विरतिः । यावज्जीवं स्वदारसन्तोषः परदाराद्विरतिः । यावज्जीवं इच्छाकृतपरिग्रहपरिमाण(णं) । षष्ठं अणुव्रतं रात्रिभोजनं(न) व निमिति । एतानि पञ्चाणुव्रतानि ।
(४) तत्र त्रीणि गुणव्रतानि । [क्तमानि ?] । दिसि(शा)विदिसि(शा)प्रत्याख्यानं द्विविधम(न)र्थदण्डाद्विरति :। कतमाः (माः)? |
दण्ड-पास(श)विरालश्च विष-स(श)स्त्राग्नि-रज्जवः । परेभ्यो नैव देयास्ते स्वपरघातहेतवः ।। छेदं भेदं वध(धं) बन्धं गुरुभारातिरोपणम् ॥ न कायन्ति स्वयमन्येषु (मन्यैः) । तृतीयं गुणव्रतं भोगोपभोगकृतपरिमाणं चेति । एतानि त्रीणि गुणव्रतानि ॥ (५) चत्वारि शिक्षाव्रतानि । कतमानि ? । सामायिकम् । दिवसावशेषिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org