________________
(२५) यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलत, चञ्चच्चन्द्रकचक्रचित्रितककुष्कन्याकुलं ध्यायति । वाणी वाणिविचित्रभङ्गुरपदप्रागल्भयशृङ्गारिणी, नृत्यत्युन्मदनर्तकीव सरसं त्वद्वक्त्ररङ्गाङ्गणे॥ ३॥
देवि ! त्वत्पदचन्द्रकान्तकरकश्चयोतत्सुधानिर्झरस्नानानन्दतरङ्गितः पिबति यः पीयूषधारारसम्। तारालङ्कृतचन्द्रशुक्तिकुहरेणाकण्ठमुत्कण्ठितो,
वक्त्रेणोगिरतीव तं पुनरसौ वाणीविलासच्छलात्॥ ४॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोकात्फणा । पत्रोनिद्रसितारविन्दकुहरे ! चन्द्रस्फुरत्कर्णिके !। देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं, ब्राह्मि ! ब्रह्मविदस्य वल्गति वच:प्रागल्भ्यदुग्धाम्बुधे !।।५॥
नाभीपाण्डुरपुण्डरीककुहरे हृत्पुण्डरीके गलत्पीयूषद्रकाव)वर्ष(र्षि)णि ! प्रविशतीं त्वां मात्रिकामालिनीम्। दृष्ट्वा भारति ! भारती प्रभवति प्रायेण पुंसो यया,
निर्ग्रन्थोऽपि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः॥६॥ त्वां मुक्तामयसर्वभूषणधरां श्वेताम्बराडम्बरां, गौरी गौरिसुधां तरङ्गधवलामालोक्य हृत्पङ्कजे। वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करां, न स्यात्कः शुचिवृत्तचक्ररचनाचातुर्यचिन्तामणिः॥
अश्येत्स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां, यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव। सुस्वच्छोद्गतिगद्यपद्यलहरीलीलाविलासामृतैः,
सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव॥ ८॥ तद्वेदान्तशिरस्तदोंकृतिमुखं ज्योति:कलालोचनं, तत्तद्वेदभुजं तु(त)दात्महृदयं तद्गद्यपद्यांहि च। यस्त्वद्वम विभावयत्यविरतं वाग्देवि ! तद्वाङ्मयं, शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते॥९॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org