________________
(२६)
वाग्बीजं स्मर बीजवेष्टितमतो ज्योति:कलाभृद्वहिरष्टद्वादशषोडशद्विगुणितद्विष्टाब्जपत्रान्वितम्। तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे,
हंसः कूड(ट)युतं भवेदवितथं यन्त्रं तु सारस्वतम्॥ १०॥ ॐ ह्रीं श्रीं स[ह] ही सबीजकलितां वाग्वादिनीदेवतां, गीर्वाणासुरपूजितामनुदिनं काश्मीरदेशे भवाम्। अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं, बुद्धिज्ञानविचारसारमहितः स्याद्देव्यसौ साम्प्रतम् ॥११।।
स्मृत्वा यन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं, चेत:स्निग्धोर्द्धनालं हृदि च विकचितां बाष्पनिर्यातना स्यात्। तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणी(णि), .
वाग्देवीं तन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥१२॥ किमिह बहुविकल्पैश्चिन्तितैर्यस्य कण्ठे, लुठति विमलवृत्तस्थूलमुक्तावलीयम्। भवति भवति नाथे भव्यभाषाविशेषैमधुरमधुसमृद्धस्तस्य वाचां विशेषः॥१३॥
इति श्री भारतीस्तवनं सम्पूर्णम्॥
प्रशस्तिः यदक्षरपरिभ्रष्टं स्वरव्यञ्जनवर्जितम्।
तत्सर्वं क्षमतां देवि ! प्रसीद परमेश्वरि॥ . .
जानीमेघेन लिखितम्। सुमतिधीरगणिपठनार्थम्॥ श्री॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org