SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ (२३) इत्यादि समासलक्षणमिति चतुर्थो भेदः। (४) ततो विग्रहविधानानन्तरं च पुनः चालना कर्तव्या। इह चालनेति कोऽर्थः ? चल्यते स्फूर्जत्तीक्ष्णमनीषया विचार्यते इति चालना । अयमाशयः- विवक्षितार्थसमर्थनाय कण्टकोद्धारादिहेतोः। अयमर्थ:- कथं सञ्जाघटीतीति पूर्वक्षोद्भावनं यत्र विधीयते सा चालना। इति पञ्चमो भेदः।। ५ च पुनस्ततः प्रत्यवस्थानम् - अर्थं अर्थं प्रति अवस्थानम् निश्चयः प्रत्यवस्थानम्। अत्र इदमेव घटते इति संशयनिरासेन पूर्वोक्तलक्षणायाश्चालनायाः यत्र सिद्धान्तोद्भावनं क्रियते तत् प्रत्यवस्थानं तदर्थसमर्थनमित्याशयः स्वयमभ्यूह्यः । इति षष्ठो भेदः॥ ६ इत्यलं प्रपञ्चेनेत्याद्यर्थयोजना। (१) चञ्चद्वर्णसुसंहिता स्फुटपदा नानापदार्थप्रदा। विज्ञश्लाघितविग्रहा समुचितस्थानं स्फुरच्चालना ।। व्यारव्याकामगवी चिरं विजयतां सत्प्रत्यवस्थानयुक्। स्निग्धं गोरसमर्पयत्यनुदिनं हृद्यस्य पद्यस्य मे॥ २ ॥ इति श्रीमत्तपागच्छाधिराज श्रीगौतमगणधरोपमगुणसमाजसकलभट्टारक वृन्दारक राजभट्टारक श्री ५. श्री विजयाणंदसूरीश्वरशिष्यभुजिष्य पं.हंसविजयगणि समर्थितायां शब्दार्थचन्द्रिकायां संहितादिषड्भेदस्वरूपनि रूपकपद्यस्य व्यारव्यादिग् सम्पूर्णा ॥१॥ (प्रतिप्रान्ते) अहँ नमः। ही नमः। ॐ नमः। * * * टि-१. प्रमाणानव बाधितोऽर्थ सिद्धान्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy