SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ (२२) समाहारे " अत ईप् द्विगु " इति सूत्रेण ईप्। तिसृणां सन्ध्यानां समाहारः त्रिसन्ध्यम्। त्रिसन्ध्यस्य क्लीबत्वमेव। एकत्वे द्विगुद्वन्द्वाविति सूत्रेण समासः। त्रयाणां भुवनानां समाहारः त्रिभुवनम्। इत्यादि। पात्रादिगणपाठानपुंसकत्वम्। द्वयोः साध्वोः समाहारः द्विसाधु। तिस्रो नद्यः समाहता त्रिनदि। एवं पञ्चसमिति। इति द्विगुसमासः।। ५ अथाव्ययीभावः। उपादिपूर्वं तदमन्तमव्ययी०। व्याख्या - उपादिशब्द आदौ येषामव्ययानां शब्दानां ते उपादयः अव्ययशब्दास्ते पूर्वं पूर्वपदं यत्र तत् उपादि। पूर्वमेवंविधं तत्पूर्वोक्तं पदमुत्तरपदं भवति। कीदृशम् ?, अमन्तम् । सर्वविभक्तीनामकारान्तात् प्रायोऽमादेशः स्यात्। सोऽम् अन्ते समासान्ते यस्योत्तरपदस्य तदमन्तमेवंविधं यत्रोत्तरपदं भवति, सोऽव्ययी। अव्ययं पूर्वपदं यस्य सोऽव्ययी। अव्ययीभावसमास इत्यर्थः। पूर्वेऽव्ययेऽव्ययीभावः। यथा - कुम्भस्य समीपम् उपकुम्भमस्ति १ पश्य २ क्रुध्यति ४ शोभा ६। क्रमेण प्रथमाद्वितीयाचतुर्थीषष्ठीनां "आतोऽमनत" इत्यमादेशः। तृतीया-सप्तम्योस्तु वा टाङ्यो इति सूत्रेणामादेशो वा। यथा उपकुम्भं कृतं, उपकुम्भेन कृतम्। उपकुम्भं शेते, उपकुम्भे शेते इति। पञ्चम्यां त्वमादेशाभावे उपकुम्भादानयेति। आकारान्तशब्दान् विनान्यस्वरान्तव्यञ्जनान्तशब्देभ्यो विभक्तिलोप एव स्यात्। यथा - स्त्रीषु अधि अधिस्त्रि। . साधोः समीपम् उपसाधु। नद्याः समीपम् उपनदि। भवतः समीपम् उपभवत्। भवत्याः समीपम् उपभवति। सुखस्यानतिक्रमेण यथासुखम्। " यथा सादृश्ये " इति सूत्रेण समासः। इत्यव्ययीभावसमासः॥ ६॥ इति द्वितीयवृत्तार्थः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy